________________
१२६
त्रिषष्टिशलाकापुरुषचरित्रम् पात्रं पवित्रं तु निपीडितं यैस्तेषां क्व शुद्धिः? क्व शिवं? क्व सौख्यम् ? ।।१७९।।
(उपजातिः) अपरं च
विनोद इत्यन्यजनेषु दुःखं, दुःशिक्षिताः केऽप्यधिरोपयन्ति। हृष्टाश्च केचित् प्रदिशन्त्यनुज्ञाम्,
यास्यन्ति धिक् ते क्व नु दुर्विनीताः?।।१८० ।। (उपजातिः) इत्यादिना दुष्कृतगहीं कृत्वा संहृत्य सर्वविकृतं सज्जशरीरं च राजानं कृत्वा त्वामीशानेन्द्रे प्रशंसत्यहमसहमानस्त्वत्परीक्षार्थमागतः क्षन्तव्य एव मदीयोऽयमविनय इत्युदीर्य च गतो देवो दिवम्।।
पृष्टममात्यादिभिः- किमनयोः श्येनपारापतयोर्वैरकारणम् ? कुतो वा देवस्य देवेनाऽनेन कष्टमाहितमिति। प्रोवाच राजा- पद्मिनीखण्डे पत्तने सागरदत्तस्य पुत्रौ धनो नन्दनश्च। वाणिजको वणिज्यार्थं गतौ देशान्तरे। उपार्जितानि प्राज्यानि रत्नानि। एकस्य च रत्नस्य कृते जातस्तयोः परस्परं कलहः। प्रवर्धमानकषायौ द्वावपि युद्ध्वा मृत्वा च जातौ खगावेतौ। इत्यनयोर्वैरानुबन्धः । देवजीवश्च मयाऽपराजितभवे दमितारियो हतः सोऽयं बालतपःप्रभावादस्मत्प्रशंसामसहमानः समागत्य मम कष्टं जनितवानिति।। - श्येनपारापतावपि तदाकर्ण्य जातिस्मरणेन सञ्जातप्रत्ययौ वैराग्यात् सम्यक्त्वपूर्वमनशनं प्रतिपद्य समाधिना मृत्वा च जातौ भुवनपती देवौ । मेघरथनृपोऽपि खगयोर्मृत्युना विशेषोद्भूतवैराग्यः प्रतिमामास्थाय स्थितः। पुनरपीशानेन्द्रेण तस्य ध्याननिश्चलताविषया कृता प्रशंसा । ततः सुरूपाऽतिरूपा च तन्महिष्यौ मेघरथनृपस्य प्रतिमास्थस्य क्षोभायोपसर्गान् कर्तुमाजग्मतुः। स्वशक्तिसामग्रयेणापि तत्समाधि भनुमपारयन्त्यौ च ते परस्परमूचतुः
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org