________________
१२५
त्रिषष्टिशलाकापुरुषचरित्रम् च वामेन दोष्णा समाक्रान्तः। ततो विरसं रसित्वा मामेवानुनयाय सङ्गीतकं कारितवानसौ । क्षमयित्वा मां गतः। स्वस्थाने गत्वासौ पुत्र राज्ये न्यस्य मत्पितुस्तीर्थकरस्य पार्श्वे प्रव्रज्य कर्मक्षयात् सेत्स्यतीत्यस्य वृत्तान्तः ।।
अन्यदा पौषधशालायां धर्मं व्याख्यानयतः सतो मेघरथनृपस्योत्सङ्गे भयत्रस्तः पारापत एक: पपात । मनुष्यवाचा स्वस्याऽभयं तस्मिन् याचमाने मा भैषीरिति प्रतिपन्नं मेघरथनृपेण तद्रक्षणम् । क्षणाञ्च मुञ्च मुञ्च मद्भक्ष्यममुमिति ब्रुवाणस्तस्यानुमार्ग चागतः। श्येनः । प्रोक्तं राज्ञा- नायं शरण्यः समर्प्यते । तवापि परप्राणापहारादात्मवपुःपोषःशोष एव पारमार्थंन। किञ्च
क्षुधो निरोधः क्रियते स्वमृत्यो-निवृत्तये सर्वजनेन तावत् । कृत्यः स चेदन्यवधेन यैस्तत् त एव भूतप्रलयो न चान्यः ।।१७७।।
___(उपजातिः) यदि चावश्यं नैनं विमुञ्चसि तदा मदङ्गमांसं भक्षयेति । तेनाऽप्यस्त्विति प्रोक्ते राज्ञा तुलायामेकतः पारापतोऽन्यतः स्वाङ्गादुत्कृत्योत्कृत्य प्रक्षिप्तं मांसम् । दिव्यशक्त्या तस्मिन् लघयत्यपि मांसम्, न मनाग्मात्रमपि राजा विरमति दीनमनाश्च न भवति । ततः प्रत्यक्षीभूय देवः प्रोवाच
भवद्गुणानां पयसामिवाब्धेः, कः पारमाप्नोति निरीक्ष्यमाणः । तेषामुपयेव तरन्ति तृण्या, इव प्रशंसाश्च मरुत्वतोऽपि ।।१७८।।
(उपजातिः) अन्यच्च
अल्पोऽपि जन्तुः परिपीडितो यै
स्तेऽप्येनसां यान्ति परं न पारम्। १ लघयति-नामधातुः ।। २ तृणपुञ्जः ।। ३ इन्द्रतोऽपि।।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org