________________
१२४
त्रिषष्टिशलाकापुरुषचरित्रम्
कथयित्वा सपरिवारमपि मेघरथं विमानमारोप्य सद्वीपसागरां वसुन्धरां विलोकयितुं तीर्थानि च वन्दयितुं नीतवन्तौ । सर्वं प्रदर्श्य स्वस्थानमानीय स्वर्णरत्नवृष्टिं च कृत्वा जग्मतुः स्वं स्थानम् ।।
1
श्रीघनरथोऽपि प्रव्रज्य तीर्थं प्रवर्त्य क्षीणाशेषकर्मा सिद्धिं प्राप्तः । मेघरथोऽपि राज्यं पालयन्नेकदा प्रियमित्रया प्रियया समं गत्वा सभायां सङ्गीतं कारयितुमुपविष्टः । तदानीं च भूतैरागत्य कृतः पूर्वरङ्गः । ततश्च विमानस्थो विद्याधर एकः सभार्यः सन् समेत्य क्षमयित्वा चागतः । ततः प्रियमित्रया पृष्टम् - किमेतदाश्चर्यान्तरमिति । ततः मेघरथः प्रोवाच- पुष्करार्द्धभरते सङ्घपुरे राज्यगुप्तो नाम दुस्थित एक: कुलपुत्रकः । शङ्खिका नाम तत्पत्नी । ताभ्यामेकदा सङ्घगिरौ गताभ्यां समवसृतकेवलिपार्श्वे प्रतिपन्नो जिनधर्मः । कृतं च द्वे त्रिरात्रिके त्रिंशत् त्रिरात्राणि इति द्वात्रिंशत्कल्याणं तपः । सर्वगुप्तमुनिपार्श्वे प्रव्रज्याऽऽचाम्लवर्धमानं तपः कृतम्। समाधिना च मृत्वा द्वावपि ब्रह्मलोके देवौ जातौ । ततोऽपि च्युत्वा जम्बूद्वीपे भरते वैताढ्येऽलकायां विद्युद्रथनृपमानसवेगयोः पुत्रः सिंहरथनामा जातः कुलपुत्रकजीवः । वेगवतीनाम्ना चाऽस्य पत्नी । विद्युद्रथस्तं राज्येऽन्यस्य प्रव्रज्य च कर्मक्षयात् सिद्धः । सिंहरथराजाऽपि विमानारूढस्तीर्थकरं वन्दित्वा व्यावर्तमानो नभसि ममोपर्यागतः । स्खलितमस्य विमानम् । ततः कोपाद् मामुत्क्षेप्तुमसौ प्रवृत्तो मया १- उपवासत्रयं कृत्वा, द्वात्रिंशदुपवासकाः । एकभक्तांतरास्तस्मादुपवासत्रयं वदेत् ॥ १ ॥ । બત્રીશ ઉપવાસ વડે જણાતાં કલ્યાણકોને ‘બત્રીશકલ્યાણક' કહે છે. તેમાં પ્રથમ અટ્કમ કરીને પારણું ક૨વું, પછી એકાંતરા એકાસણાના પારણાવાળા બત્રીશ ઉપવાસ કરવા તથા છેડે અટ્કમ કરીને પારણું કરવું. એમ કરવાથી આ તપ આડત્રીશ ઉપવાસ અને ચોત્રીશ પારણા વડે એટલે બોંતેર દિવસે પૂર્ણ થાય છે. આ તપનુ ફળ તીર્થંકરનામકર્મની પ્રાપ્તિ થાય તે છે. આ સાધુ તથા શ્રાવકને ક૨વાનો આગાઢ તપ છે.
આ તપ જંબૂદ્વીપમાં રહેલા મહાવિદેહમાં ઉત્કૃષ્ટ કાળે થયેલા ૩૨ પ્રભુના કેવળજ્ઞાન પ્રાપ્તિરૂપ કલ્યાણકના આરાધન સંબંધી જાણવો.
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org