________________
१२२
त्रिषष्टिशलाकापुरुषचरित्रम्
मिलितौ द्वावपि मुनी वज्रायुधसहस्रायुधौ पितृपुत्रौ । ततोऽतिसंवेगरङ्गादङ्गमप्युत्स्रष्टुकामौ गतावीषत्प्राग्भारगिरौ । तत्र पादपोपगमनमनशनं कृत्वा समाधानेन मृत्वा च द्वावपि तृतीये ग्रैवेयके पञ्चविंशतिसागरोपमायुषौ देवौ जातौ ।। ८ ।। ९ ।।
जम्बूद्वीपे प्रावि पुष्कलावतीविजये पुण्डरीकिण्यां घनरथो राजा प्रियमतिर्मनोरमा च तस्य द्वे भायें । तृतीयाद् ग्रैवेयकाच्युत्वा वज्रायुधजीवः प्रियमत्याः कुक्षाववतीर्य पुत्रो जातः । स्वप्ने मेघदर्शनाद् मेघरथ इति कृतं नाम । सहस्रायुधजीवोऽपि ततश्च्युत्वा मनोरमायाः कुक्षाववतीर्य पुत्रो जातः । रथस्वप्नदर्शनाद् दृढरथ इति कृतं नाम । द्वावपि प्राप्तौ यौवनं कलाकलापं च ।।
एकदा सुमन्दिरपुरस्वामिनो निहतशत्रुनृपस्यामात्यः समेत्य घनरथं राजानं विज्ञप्तवान्– देव ! मत्स्वामिनस्तनयाद्वयं कुमारमेघरथो, दृढरथकुमारः पुनरेकां कन्यामुद्वहतामिति । ततः सम्मान्य तं राज्ञा प्रहितौ प्रधानपरिवारौ कुमारी सुमन्दिरं पुरं प्रति । गच्छतोश्च तयोरवान्तरे सुरेन्द्रनृपदूतः समेत्याऽस्मद्देशमध्ये न गन्तव्यमिति प्रोवाच । ताभ्यामप्युक्तम् - नान्यदीयोऽयं देशः । यद्यन्योऽपि स्वाम्यस्ति तदा स समेत्यावां निवारयत्विति । ततस्तद्वचनकुपितः समायातः सर्वाभिसारेण सुरेन्द्रदत्तः । युध्यमानश्च जितः ताभ्याम् । गृहीतः पातयित्वा नीतस्तस्यैव पुरे । घोषिता तत्र निजाज्ञा । ततः सहैव नीतः सुमन्दिरं पुरम् । महत्या च प्रतिपत्त्या निहतशत्रुणा कारितौ तौ स्वपुत्रीणां पाणिग्रहणम् । प्रियमित्रा मनोरमा च मेघरथेन परिणीते । सुमतिश्च दृढरथेनोदृढा । सगौरवं सम्मानितौ विसृष्टौ च तौ प्रचलितौ स्वनगरीं प्रति । आसन्नपुरश्च स्थापितः सुरेन्द्रदत्तस्तथैव स्वे राज्ये । सम्प्राप्तौ प्राप्ताभ्यधिकप्रतापसिद्धिवैभवौ स्वं पुरम् । दानभोगसुखमयं कालं गमयतः । जातः प्रियमित्राया नन्दिषेणो नाम पुत्रः । मनोरमायाश्च जातो मेघसेनो नाम सुतः । सुमत्याश्च रथसेनो नाम सञ्जातस्तनयः ।।
1
एकदा महाराजघनरथे मेघरथदृढरथादिपरिवारसहिते सभामध्यमध्यासीने सुसेना नाम वेश्या कुक्कुटमेकमादाय समायातवती । विज्ञप्तं तया - देव ! यद्ययं मदीय कुक्कुटोऽन्यैः कुक्कुटैर्जीयते तदा दीनारलक्षमहं ददामीति भणित्वा मुक्त सभायां
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org