________________
१२०
त्रिषष्टिशलाकापुरुषचरित्रम् स्थापितः सहस्रायुधः । एकदा स्थानोपविष्टे चक्रिणि गगनाद् विद्याधर एक सहसैवागत्य शरणं प्रपन्नः । तन्पृष्ठतश्चैका नायिका पुरुषश्चैकः, तयोस्तस्य वधं विधित्सतोश्चक्रिणाऽवधिज्ञानेन ज्ञात्वा प्रोक्तम्- भो ! भो ! श्रुणुतं मद्वचनम् ।।
जम्बूद्वीप ऐरावते क्षेत्रे विन्ध्यपुरे विन्ध्यदत्तो राजा। सुलक्षणा पत्नी । नलिनकेतुस्तत्सुतः । तत्र च धर्ममित्रो नाम सार्थवाहः। श्रीदत्ता तस्य भार्या। दत्तः सुतः। तत्पत्नी प्रभङ्करा । अन्येधुरुद्याने नलिनकेतुना कुमारेण स्वदयितेन समं तत्र क्रीडन्ती दृष्टा प्रभङ्करा । ततोऽपहत्य तेनाऽन्यत्र नीता सा रन्तुम् । तद्विरहेण जातश्चोन्मत्तो दत्तः । भ्रमता च तेन दृष्टः सुमनोऽभिधानः केवली । तद्देशनया व्यावृत्तं तस्य चैतन्यम् । विरक्तो भवात्। प्रव्रज्य समाधिना च मृत्वा पूर्वविदेहे सुकच्छविजये वैताढ्ये स्वर्णतिलके पुरे विद्याधरेन्द्रमहेन्द्रविक्रमानिलवेगयोः पुत्रो जातः। तस्याजितसेन इति कृतं नाम । समये साधितास्तेन विद्याः । इतश्च विन्ध्यदत्ते मृते नलिनकेतुर्जातो राजा। चिरं राज्यं प्रपाल्याऽन्ते प्रव्रज्याऽष्टकर्मनिर्मूलनात् सिद्धः । प्रभङ्करापि दीक्षां विना चान्द्रायणं तपस्तप्त्वा मृत्वा च जम्बूद्वीपे विदेहे सुकच्छविजये वैताढ्ये शुक्लपुरे विद्याधरराजशुक्लदत्तयशोधरयोः पुत्रस्य पवनवेगस्य तवैव सुकान्तायां पत्न्यां पुत्रीयं शान्तिमतीति नाम्ना समुत्पन्ना । स च दत्तजीव एवाऽयमजितसेनः। ततोऽनेन प्राग्जन्मस्नेहादियमद्य विद्यां साधयन्ती हता । ततो मा कुपस्त्वमिति । एतच्चाकर्ण्य प्रतिबुद्धास्त्रयोऽपि क्षमयामासुः परस्परमाशु । पुनश्चक्रवर्तिना प्रोक्तम्- शान्तिमती सहितौ युवां व्रती भविष्यथः । शान्तिमती मृत्वेशानेन्द्रो भविात । युवां च शिवं प्राप्स्यथः । भवद्वपुर्महिमानमीशानेन्द्रोऽयं करिष्यतीति । एवमतीतमनागतं च ज्ञानमतिशायि श्रुत्वा सर्वेऽपि चमत्कृताः । ते च विरक्तमनसः तदानीमेव गत्वा क्षेमङ्करतीर्थकरपार्श्वे प्रव्रजिताः । कृतं रत्नावलीतपः । मृत्वानशनपूर्वं शान्तिमतीशानेन्द्रो जातः । तावपि केवली भूत्वा सिद्धौ । तद्वपुर्महिमेशानादागत्येशानेन्द्रेण स्वयं कृतः ।।
सहस्रायुधस्यापि जयनादेव्यां पुत्रो जातः । स्वप्ने कनकशक्तिदर्शनात्
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org