________________
त्रिषष्टिशलाकापुरुषचरित्रम्
११९ समये जातः सुतः । सहस्रायुध इति च कृतं नाम । प्राप्ततारुण्यश्च कनकश्रियं राजपुत्रीं परिणीतवान् । कियत्यपि गते काले सहस्रायुधस्य जातः पुत्रः । कृतं महाबल इति नाम । वज्रायुधश्च बाल्यादपि जिनधर्मभावितात्मा दृढसत्त्वश्च । एकदा क्षेमङ्करमहाराजः पुत्रपौत्र मन्त्रिभिः परिवृतः स्वसभायामासीनो यावदस्ति तावदेकः सुरः सहसैवाऽऽयातः । सोल्लुण्ठवचनैर्धर्मनिन्दां च कर्तुं प्रवृत्तः । ततो वज्रायुध-कुमारेणोक्तम्
कः किल्बिषैत्रिदशतां समुपागतोऽस्ति, को वा गतोऽस्ति नरके सुकृतानि कुर्वन् । पश्यन् पुरातनशुभं निजमात्मनोऽपि, किं नास्ति धर्मफलमित्यसकृद् ब्रवीषि।।१७४।।
___ (वसन्ततिलका) इत्यादिप्रत्यक्षलक्षया युक्त्या प्रतिबुद्धः सः । ततः स देवो दिव्यालङ्करणस्तमभ्यर्थेशानेद्रकृतां तव सम्यक्त्वस्थैर्यप्रशंसामसहमानः परीक्षार्थमागतोऽहमित्युदीर्य हृष्टः सन् गतः स्वं स्थानम् ।।
एकदा वसन्तोत्सवे लक्ष्मीवतीप्रमुखान्तःपुरीसप्तशतीपरिवृतो गतो बाह्योद्याने कुमारः । यावद् वाप्यां जलक्रीडाप्रवृत्तोऽस्ति, तावदागतः प्राग्जन्मवैरी दमितारिजीव: प्राप्तदेवत्वो विद्युदंष्ट्राऽभिधः । क्रुधाभिधाय सपरिवारस्याऽपि कुमारस्योपरि पर्वतमेकमुत्पाट्य क्षिप्रं चिक्षेप। नागपाशैश्चै चरणयोर्बबन्ध । कुमारेणापि वज्रमुष्ट्या हत्वा सर्वतोऽपि स पर्वतो नीतो विशरारुताम् । विच्छोटिताश्च नागपाशाः । तदा च विदेहचैत्यानि वन्दित्वा व्यावृत्तेन दृष्टः शक्रेण । भावी तीर्थकर इति पूजितश्च ।।
क्षेमकरनृपस्य सारस्वतादिदेवैः कृतं समयनिवेदनम् । प्रतिपन्नचारित्रश्चोत्पन्नकेवलज्ञानः प्रवृत्तो भव्यप्रबोधनेऽसौ । वज्रायुधस्यापि चक्रप्रभृतीन्युत्पन्नानि चतुर्दशरत्नानि। साधितोऽनेन षटखण्डोऽपि मङ्गलावतीविजयः । यौवराज्ये
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org