________________
त्रिषष्टिशलाकापुरुषचरित्रम्
१०९
कपिलो नाम पुत्रः । स च महाप्राज्ञः । नन्दिभूतिश्रीभूत्योः पठतोः कर्णश्रुत्या चतुर्दशानां विद्यास्थानानां पारगो जातः । स्वदेशे पूजां न लप्स्येऽहमिति गृहान्निःसृत्योत्तमो महामाहनोऽहमित्यात्मानं स्थाने स्थाने प्रकाशयन् पूज च लोकतो गृह्णन् सम्प्राप्तो रत्नपुरे । वेदपाठकस्य सत्यकेरुपाध्यायस्य पाठशालायां गत्वा निवासमकरोत् । तत्र च छात्रान् व्याख्यानं भाणयता, संशयांश्च पृच्छकानां च्छिन्दता, विनयं च कुर्वता सत्यकेरुपाध्यायस्यावर्जितं चित्तं तेन । ततः सत्यकिना कृतः स्वपदे । प्राप्नोति सर्वत्र विशेषपूजाम् । क्रमेण सत्यकिना सत्यभामाभिधां स्वां कन्यां सगौरवं विवाहितः । विषयासक्तस्य च तया सह तस्यातिक्रान्तो भूयान् कालः ।।
T
1
एकदा रात्रौ देवगृहेषु प्रेक्षणादिकं प्रेक्ष्य गृहं प्रतिनिवर्तमाने तस्मिन् मार्गे वृष्टिं कर्तुं प्रवृत्तो मेघः । तेन चिन्तितम् - न कोऽपि मां मेघान्धकारितायां निशि पश्यतीति । ततो नग्नीभूय वस्त्राणि सम्पीड्य कक्षायां च निक्षिप्य गृहद्वारे च परिधाय प्रविष्टो गृहे । समानीतानि गृहिण्यान्यतराणि वस्त्राणि । प्रोक्तं तेन । मुग्धे ! विद्या प्रभावान्न मे वस्त्राणि तिमितानीति । चिन्तितं तया - यदि विद्याप्रभावः स्यात् तदाङ्गमपि न तिम्येत् । तस्मान्नग्न एवायमायातोऽकुलीनश्च। ततः प्रभृति च तं प्रति सा मन्दानुरागा जाता। तस्मिंश्च समये तत्पिता धरणिजटः क्षीणधनः समृद्धं कपिलं श्रुत्वा तत्रागतः । पाद्यस्नानादिकं च कारितः स्वयं कपिलेन । भोजनसमये च न मे वपुः पटुतरमिति विभिन्नं भोजय पितरमिति सत्यभामां समादिदेश । तया च वितर्कितं स्वमनसि - नूनं नाऽयमेकपङ्किक इति । पिता च सगौरवं भोजितः। एकदा धरणिजटं रहसि दृष्ट्वा प्रणम्य ब्रह्महत्यादानपूर्वकं तया पृष्टः- तात ! त्वत्पुत्रोऽयं शुद्धपक्षोद्भवोऽवरुद्धोद्भवो वेति सत्यं ब्रूहि । तेनाप्यवरुद्धोद्भव इति सत्यं कथितम्। ततो विषण्णया तया स्वमनसि चिन्तितम्
लुम्पन्ति प्रथमं स्मृतिव्यवहतिं, गुर्वादिलज्जां ततो
दाक्षिण्यं तदनु स्वदारविषयं शुद्धिं कुलस्याऽप्यथ । एष्यत् पङ्क्तिबहिस्त्वलाघवमपि, स्वीकुर्वते सन्ततेरुच्छिष्टान्यकलत्रसङ्ग्रहविधी, ध्यायन्ति किं दुर्धियः । । १६६ ।।
(शार्दूलविक्रीडितम्)
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org