SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ १०८ त्रिषष्टिशलाकापुरुषचरित्रम् कौमारे वर्षाणां सहस्राः पञ्चाशत् मण्डलिकत्वेऽपि तावन्तः । दिग्जये दशसहस्राः । चक्रित्वे नवतिः सहस्राः । व्रते लक्षमेकम् । एवं त्रीण्यब्दलक्षाणि सनत्कुमारचक्रवर्तिनः सर्वात ।। । । । श्रीशान्तिनाथचरित्रम ।। । श्रीमान् समानयतु शान्तिजिनो जनस्य, स ध्वान्तमान्तरमपि प्रशमं समन्तात् । वृद्धये न यो मकरकेतनदोषयोर्यः, सचक्रहर्षजननो मृगलाञ्छनोऽपि । । १६३ ।। ( वसन्ततिलका) श्रीषेणः पृथिवीपतिः मिथुनक, सौधर्मवासी सुरो, वैताढ्येऽमिततेज इत्यऽवनिपो, गीर्वाणकप्राणते । एतस्मादपराजितो बल इतो, जातोऽच्युतेन्द्रस्ततः, श्रीवज्रायुधचक्रयथाऽमरवरो, गैवेयके द्व्यग्रगे । । १६४ । । (शार्दूलविक्रीडितम्) अथ मेघरथो राजा, देवः सर्वार्थसिद्धके । शान्तिनाथभवा भव्यां दिशन्तु द्वादशश्रियम् । । १६५ । । जम्बूद्वीपेऽत्रैव भरतार्द्धमध्यमखण्डे रत्नपुरे श्रीषेणो राजा । अभिनन्दिता शिखिनन्दिता च तस्य द्वे भायें । स्वप्ने उत्सङ्गगतसूर्येन्दुदर्शनादभिनन्दिताया द्वौ पुत्रौ जातौ । इन्दुषेणबिन्दुषेणाविति तयोः कृतं नाम । प्राप्ततारुण्यौ च तौ सुखं विलसतः ।। इतश्च मगधेष्वचलग्रामे धरणिजटो नाम माहनो वसति । तस्य यशोभद्राख्या भार्या । तयोर्नन्दिभूतिः श्रीभूतिश्चेति पुत्रद्वयम् । दास्याः कपिलायाः कुक्षेर्जातस्तृतीयः 1 Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003692
Book TitleTrishashti Shalaka Purush Charitram
Original Sutra AuthorN/A
AuthorJineshchandravijay
PublisherRander Road Jain Sangh
Publication Year2008
Total Pages234
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy