________________
१०७
त्रिषष्टिशलाकापुरुषचरित्रम् स्वान्योपकारकरणप्रवणेन विद्यालोभादिनापि न मदं कुरुते कुलिनः । रोगैः क्षुधा च जरसापि विनाश्य केन, रूपेण कोऽस्तु भुवने मतिमानहंयुः ।।१६१।।
(वसन्ततिलका) चक्री च वैवर्ण्यकारणं पप्रच्छ। तौ च शक्रप्रशंसादिकं रोगसङ्क्रान्तिस्वरूपं चाभिधाय तिरोहितौ। चक्रयपि वैराग्यात् पुत्रं राज्ये न्यस्य विनयन्धरसूरिपार्श्व प्रव्रज्य महातपःपरो विजहार। मन्त्रिमण्डलमपि षण्मासी पृष्ठतः परिभ्रम्य न्यवर्तत। षष्ठतप:पारणे च चीनककूरमजायास्तक्रं च भुक्तवान्। ततः कच्छू-शोष-ज्वरश्वासा-ऽरुचि-कुक्ष्य-ऽक्षिवेदनाः सप्त युगपदुद्भूताः । सप्तवर्षशती यावन्महासत्त्वतया सोऽधिसेहे। अन्यानप्येवमुपसर्गान् सहमानस्य समुत्पन्नाश्च लब्धयो विविधाः। प्राग्वञ्च शक्रेण निष्कर्मत्वविषयास्य प्रशंसा कृता। परीक्षार्थं च द्वौ सुरौ भिषग्रूपौ भूत्वा समागत्य तमूचतुः- महामुने ! आवां वैद्यौ स्वौषधैरेव चिकित्सावस्त्वामिति। मुनिनाप्युक्तम्
रोगाः सर्वे, प्रकृतिविषमाः, कर्मणोऽमी निदानाद्, दानाद् भोगा इव नियमतः, प्राणभाजां भवन्ति । छेद्यं वैद्यैः, प्रथममभया-बैस्ततः कर्ममर्म त्याज्यं चाज्याद्यपि न भविना-मेवमायान्ति रोगाः ॥१६२।।(मन्दाक्रान्ता)
ततो यदि युवां कर्मरोगहरौ, तदा मां चिकित्सताम् । अथ बाह्यरोगहरावेव, तदा गलत्पामां ममाङ्गुली मयैव निष्यूतबिन्दुपरामर्शेन सुवर्णवर्णीकृतां पश्यतामिति। तौ च तथाविधां दृष्ट्वाऽङ्गुली भगवन्नसामान्यस्त्वमावां च शक्रकृतभवत्प्रशंसामसहमानौ तव परीक्षार्थमागतो- इत्युदीर्य स्वाभाविकेन रूपेण वन्दित्वाऽन्तर्हितौ । मुनिचक्रवर्त्यपि समयेऽनशनेन समाधिना च मृत्वा सनत्कुमारदेवलोके देवो जातः। अस्य च १ अहङ्कारी।।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org