________________
१०६
त्रिषष्टिशलाकापुरुषचरित्रम्
-मुकुट - देवदूष्ययुग - सिंहासन-पादुकाद्वय पादपीठ - दिव्याङ्गराग-रत्न- स्वर्णाद्यं चाऽर्पयित्वोर्वशीतुम्बुरुप्रभृतिभिः समं धनदयक्षः प्रेषितः । तेन शक्रस्येव चक्रिणः पुरप्रवेशः कारितः । चक्रवर्तित्वाभिषेकोत्सवं सविस्तरं समर्थ्य धनदः स्वस्थानं सम्प्राप्तः ।।
1
चक्रवर्तिश्रिया तस्मिन् षट्खण्डं भरतं न्यायवृत्या परिपालयति सत्येकदा सुधर्मायां सभायां नाटकनिरीक्षणाक्षिप्ते शक्रे ईशानकल्पादतिभासुरः सुर एकोऽभ्यागतः तत्तेजसा च तिरोहितानि समस्तनाकिनां तेजांसि । गते च तस्मिन् देवे देवैर्दिवस्पतिस्तत्तेजसां प्राचुर्यकारणं पृष्टः । शक्रेणाऽप्यभिहितम् प्राग्जन्मन्यनेनाऽऽचाम्लवर्धमानं तपस्तप्तं तत्प्रभावोऽयमिति । पुनस्तैः पृष्ठम् । सम्प्रत्यपि कश्चिदस्ति मनुष्यस्तेजस्वी रूपवांश्चेति । ततः शक्रेणोक्तम्- यादृक् सनत्कुमारश्चक्री रूपवांस्तादृग् नरः सुरोऽपि नास्तीति । ततस्तत्प्रत्ययार्थं द्वौ देवौ भूदेवरूपधारिणी भूत्वा सनत्कुमारद्वारपालसमीपमागतौ । तदानीं च चक्री कृतसर्वाङ्गाभ्यङ्ग आसीत् । विज्ञप्य च द्वारपालेन नीतौ तौ चक्रिसमीपम् । ताभ्यां च निरूपमां रूपसम्पत्तिमवलोक्य विस्मयोद्भूतमूर्द्धभ्यामभ्यधायि
दूरस्था: कति नाम नैव गुणिनः, सन्तोऽर्थवन्तोऽथवा, श्रूयन्ते जनयन्ति के हृदि न चो- त्कण्ठामकुण्ठात्मनाम् । दृष्टैः स्पष्टतरं पुनर्निकटतः, सम्भावनाप्यग्रिमा,
तैर्लोकस्य फलाभिलाषघटना, तालैरिवोन्मूल्यते । । १६० ।। (शार्दूलविक्रीडितम्)
भवतस्तु प्रसिद्धेरधिकं रूपं सर्वथा कृतार्थावावामिति । चक्रिणोक्तम् । केयमभ्यङ्गभङ्गुरलावण्ये वपुषि कान्तिभ्रान्तिः । तन्मज्जनानन्तरमलङ्कृतं मे वपुर्विलोक्यमिति । विसृष्टौ तौ सप्रसादम् । चक्रयपि स्नात्वा कल्पिताकल्पभूषणो धृतसाडम्बराम्बरस्तरसा तावाकार्य सिंहासनासीनः स्वमदर्शयत् ।।
तौ च तं निध्याय विध्यातदीपाविव श्यामास्यौ सन्तौ परस्परमिति चिन्तयितुं प्रवृत्तौ
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org