________________
१०४
त्रिषष्टिशलाकापुरुषचरित्रम् च विसृष्टो राज्ञा। गतोऽसौ स्वं गृहम् । कृत्वा जिनबिम्बार्चनाद्यम्, परिजनादिभिश्च सह क्षमणं कृतसर्वसङ्गपरित्यागः प्रतिपद्य सुगुरुसमीपे व्रतं नगरान्निर्गत्य समारूढः पर्वते। कृतमनशनम्। पक्षं पक्षमेकैकस्यां दिशि स्थितोऽभिग्रहेण कायोत्सर्गे। काककङ्कादित्रोटीपुटोत्कृत्तकृत्तिकष्टमधिसह्य समाधिना मृत्वा सौधर्मेन्द्रो जातः । त्रिदण्ड्यप्याभियोगिकं कर्मोपाय॑ मृत्वा च शक्रस्य वाहनमैरावणो जातः । ऐरावणभवाञ्च च्युत्वाऽसिताक्षो नाम यक्षो जातः ।।
इतश्च जम्बूद्वीपेऽस्मिन्नेव भरतार्द्ध कुरुजाङ्गलदेशे हस्तिनापुरेऽश्वसेनो राजा। सहदेवी भार्या। सौधर्माज्जिनधर्मजीवश्च्युत्वा सहदेव्याः कुक्षाववतीर्णः । समये च चतुर्दशस्वप्नसूचितचक्रिजन्मा पुत्रो जातः । सनत्कुमार इति कृतं नाम । स चाऽद्वैतरूपपात्रं स्वर्णवर्णः सर्वलक्षणलक्षिताङ्गः सार्द्धकचत्वारिंशद्धनुर्मानो वर्षलक्षत्रयायुश्च । तस्य च कालिन्दीसूरसुतो महेन्द्रसिंहः परमं मित्रम् ।।
एकदा वसन्ते तेन समं मकरन्दोद्याने गत्वा रन्तुं प्रवृत्तः । तदा चाऽश्वपतिना राज्ञः प्राभृते तुरगाः प्रेषिताः। जलधिकल्लोलो नाम च विशिष्टरयो हयः कुमारयोग्यः प्रहितः । कुमारोऽपि क्रीडां विमुच्यारूढस्तं तुरङ्गमम् । वल्गाचलनमात्रेणाऽप्युत्प्लुत्य गतो दूरतरं तुरङ्गः। यथा यथा कुमारो वल्गां निरुणद्धि तथा तथा विपरितशिक्षत्वादधिकमेवाऽभिधावति सः। पृष्ठतश्चाऽश्वसेननृपः कुमारव्यावर्तनाय प्रधावितः, परं न क्वापि दृष्टोऽसौ। ततो महेन्द्रसिंहेन महता निर्बन्धेन व्यावर्त्य नीतो राजा राजधानीम्। स्वयं च राजानमनुज्ञाप्य तमन्वेषयितुं प्रविष्टो महाटवीम्। निरन्तराद्रिष्वद्रिषु अगण्येष्वरण्येषु दुर्गमासु निम्नगासु च तं निरीक्षमाणः श्रूयमाणोन्मदमयूरकेकमेकं सरः स समाससाद। पुरस्ताञ्च गच्छन् शुश्राव वेणुवीणाध्वनिस्फीतं सङ्गीतम्। ददर्श च दर्शनीयावधिवधूजनमध्यवर्तिनं कण्ठोपकण्ठलुठन्मुक्ताहारं सनत्कुमारम्। दूराद् दण्डप्रणाममासूत्रयन् समुत्थाय कुमारेण सहर्षं स परिषस्वजे। जातौ द्वावपि हृष्टौ।।
प्राग्वृत्तान्तं च महेन्द्रसिंहेन पृष्टः कुमारः । स्वदयितां बकुलमतिं समादिश्य १ काककङ्कादिना चञ्चापुटेन कृतं चर्मकर्त्तनादिरूपं दुःखम्।।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org