________________
त्रिषष्टिशलाकापुरुषचरित्रम्
१०३ समुत्पन्नं वैराग्यम् । प्रवृत्तः स्वं निन्दितुम्
नीतिं व्यतीत्य परिहत्य सतां च कृत्यं, धिर धिग्! मयेन्द्रियवशेन कृतं कुकर्म । शुक्लांशुकस्य नवकजलपङ्कवन्मे, हा ! पातकं तदिदमुग्रमपेष्यति क्व? ।।१५८ ।। (वसन्ततिलका)
अन्यञ्च
एकेन राज्ञा जनलजयेव, कलङ्किनाग्रेऽस्ति समाश्रितं खम् । राज्ञो द्वितीयस्य कलङ्किनस्तु,
श्वभ्रं विनाऽन्यः क इवाश्रयोऽस्तु ।।१५९।। (उपजातिः) एवं च दुष्कृतगर्हाप्रवृत्तस्य राज्ञः समुद्भूतः संवेगः। परित्यज्य राज्यं सुव्रतगुरुपार्श्वे प्रव्रजितः। उग्रतरं तपस्तप्त्वा समाधिना च मृत्वा सनत्कुमारे देवो जातः।।
ततश्च्युत्वा रत्नपुरे श्रेष्ठिपुत्रो जिनधर्म इति नाम्ना समुत्पन्नः । स च बाल्यादपि दयादिगुणनिवासो जिनधर्मवासितान्तःकरणश्च द्वादशविधश्रावकधर्मं विधिवत् पालयति। सार्थवाहनागदत्तोऽपि प्रियाविरहविह्वलो मृत्वा भवं भ्रान्त्वा सिंहपुरेऽग्निशर्मा नाम माहनतनयो जातः । प्राप्तयौवनश्च कालेन त्रिदण्डित्वं प्रपद्य स रत्नपुरे समागतः। तत्र च तदा हरिवाहनो राजा महाभागवतः । स तं परिव्राजं निमन्त्रितवान् । पारणकदिने च कार्यवशेन नृपवेश्मन्यायातं जिनधर्मश्रावकं स त्रिदण्डी पश्यति स्म । प्राग्जन्मवैरानुभावात् क्रुधा ज्वलन् पार्थिवं प्रति प्रोवाच । राजन् ! यद्यस्य श्रेष्ठिनः पृष्ठे स्थालं निवेश्यात्युष्णपायसेन मां भोजयसि तदाहं त्वद्गृहेऽभ्यवहरामि नान्यथेति। राजाज्ञया च दत्तं श्रेष्ठिना पृष्ठम् । क्षिप्तं सूपकारैरत्युष्णं पायसम् । भुक्तं विशेषतस्तेन स्थिरीभूय । जिनधर्मश्रावकेण च सोढः सम्यगुपसर्ग: । समुञ्चटितपृष्ठत्वम्
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org