________________
त्रिषष्टिशलाकापुरुषचरित्रम्
मध्यमग्रैवेयकान्नरपतिनृपजीवश्च्युत्वा भद्रायाः कुक्षाववतीर्णः । चतुर्दशमहास्वप्नसूचितचक्रिजन्मा स्वर्णवर्णः सार्द्धद्विचत्वारिंशद्धनूच्चः पञ्चवर्षलक्षायुः समये पुत्रो जातः । मघवेवायमवतीर्णः इति पितृभ्यां सान्वयमेव मघवा इति कृतं नाम । प्राप्तः तारुण्यं पितुरनन्तरं च जातो राजा । समुत्पन्नं तस्याऽस्त्रशालायां चक्ररत्नम् । यथास्थानमन्यान्यपि पुरोधःप्रभृतीनि चतुर्दशरत्नानि क्रमेण सम्पन्नानि ।।
चक्रमार्गानुगश्च प्रस्थितश्चक्री दिग्जयाय । वशीकृता मागधवरदामप्रभाससिन्धुवैताढ्यतमिस्राद्वारस्थकृतमालदेवाः । सेनान्या सिन्धुप्रत्यग्निष्कुटः साधितः, तमिस्राकपाटोद्घाटनं कृतम्, किराताश्चापाताः साधिताः । पूर्वसिन्धुनिष्कुटः साधितः । चक्रिणा हिमवत्कुमारो वशीकृतः । ऋषभकूटाद्रौ स्वनाम लिखितम् । सेनान्या गङ्गायाः पूर्वनिष्कूटः साधितः । चक्रिणा स्वयं गङ्गादेवी वैताढ्य श्रेणिद्वयं खण्डप्रपाताद्वारस्थनाट्यमालदेवश्च वशीकृतः । सेनान्या खण्डप्रपातायाः कृतं कपाटोद्घाटनम् । प्रत्यग्निष्कूटश्च साधितः । चक्रिणाऽपि निःसृत्य गुहायाः साधिता नवनिधयः । ततः सम्प्राप्तः स्वस्थाने । कृतः सदेवैर्नृपैश्चक्रिपदाभिषेकः । सम्पूर्णायामपि चक्रवर्तिलक्ष्म्यां परं न जातु प्रमद्वरश्चक्री सञ्जातः, किन्तु दृढसम्यक्त्व एव स महात्मा बभूव । द्वादशविधमपि श्रावकधर्मं विधिवदपालयच्च । अवसाने च व्रतं परिपाल्य निरतिचारं चानशनं साधयित्वा मृत्वा सनत्कुमारे देवो जातः । मघवतश्च कौमारे मण्डलिकत्वे च प्रत्येकं वर्षाणां पञ्चविंशतिः सहस्राः । दिग्जये दशसहस्राः । चक्रवर्तित्वे लक्षत्रयं नवतिः सहस्राश्च । व्रते पञ्चाशत् सहस्राः । एवं पञ्चवर्षलक्षाणि मघवञ्चक्रिणः सर्वायुरिति ।।
। । । सनत्कुमारचरित्रम् ।। ।
कञ्चनपुरे विक्रमयशा इति राजा । तेनाऽन्तः पुरस्त्रीणां पञ्चशतानि मेलितानि । तथाऽपि तस्य न सन्तोषः । तत्र च पुरे नागदत्तो नाम सार्थवाहः । तस्य विष्णुश्रीर्भार्या । तयोरन्योन्यमवियुक्तयोः सारसयोरिव कालोऽतिक्रामति । एकदा विक्रमयशसा
Jain Educationa International
१०१
For Personal and Private Use Only
www.jainelibrary.org