________________
१००
त्रिषष्टिशलाकापुरुषचरित्रम्
प्रोक्तं तेन- कुमारौ ! युवयोः पिता सदैवाऽस्मदाश्रित एवाऽभत्, ततस्तदभावे युवां मया पाल्यौ। दूरस्थयोर्युवयोः कस्त्राता ? मत्पार्श्ववर्तिनौ तु वां न कोऽप्यभिभवेदिति शीघ्रमागच्छतामत्रेति । ताभ्यामप्युक्तम्- दूत ! महदाकूतं भवत्स्वामिनो देशत्याजनेन । जनमात्रावावां कर्तुमीहते हतको निशुम्भः । कुम्भदासी कुर्वस्तमेवावामपि । कस्यापि साहाय्येन वर्धिष्यावहे । तद्गच्छ तत्सविधं ब्रूयाच्चैवम् । यदि निशुम्भ ! तव रक्षणे शक्तिस्तदा स्वमेवावाभ्यां निशुम्भ्यमानं रक्षेरिति । सोऽपि ज्ञातवृत्तान्तः कृतान्त इव कुपितः सन्नह्य समायातस्तयोरुपरि प्रवृत्तं तेषां युद्धम् । युध्यमानानां क्षीणान्यायुधानि | क्षिप्तं निशुम्भेन चक्रम् । तेनैव चक्रेण पुरुषसिंहो निशुम्भं न्यशुम्भयत् । जयत्यर्द्धचक्री पुरुषसिंह इत्युद्युष्टं नभसि सुरमागधैः । पातिता च पुष्पवृष्टिः । साधितमनेन भरतार्धम्। व्यावर्त्तमानेन मगधेषु कोटिशिलां समुत्पाट्य वामदोष्णा हृदयं यावद् विमुच्य स्वस्थाने सम्प्राप्तो स्वपुरे । जातस्तत्राऽर्द्धचक्रित्वाभिषेकः । समवसृतस्तत्राऽन्यदा श्रीधर्मनाथः । तत्पार्श्वे द्वाभ्यामपि प्रतिपन्नं सम्यक्त्वम् । आसन्नावसानः पुरुषसिंहोऽपि हिंस्रकर्मपरो मृत्वा षष्ठीं पृथ्वीं गतः ।।
कौमारे वर्षाणां त्रिंशती । मण्डलिकत्वे द्वादशशती सार्द्धा । दिग्जये सप्ततिः । राज्ये लक्षनवकं सहस्रा अष्टानवतिः त्रिशत्यशीतिश्च । एवं दशवर्षलक्षी सर्वायुः । सुदर्शनोऽपि भ्रातृविरहवैराग्यात् प्रव्रज्य सर्वकर्मक्षयाद् मोक्षं गतः । वर्षाणां सप्तदशलक्षाण्यायुः सुदर्शनस्येति ।।
। ।। मघवचक्रिचरितम् ।। ।
श्रीवासुपूज्यतीर्थेऽत्रैव भरते महीमण्डनपुरे नरपतिनृपो न्यायेन राज्यं प्रपाल्याऽन्ते समये प्रव्रज्ययाऽऽत्मानं तपसा च संशोष्य समाधिना मृत्वा मध्यमग्रैवेयके देवो जातः ।।
जम्बूद्वीपेऽत्रैव भरते श्रावस्त्यां समुद्रविजयो राजा । भद्रा महादेवी ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org