SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरित्रम् । । सुदर्शन-पुरुषसिंह-निशुम्भानां चरितम् ।।। जम्बूद्वीपेऽपरविदेहे विशोकायां पुर्यां पुरुषवृषभो राजा प्रजापालमुनेः पार्श्व प्रव्रज्य तपस्तप्त्वा समाधिना च मृत्वा सहस्रारे सुरो जातः । अष्टादशसागरोपमाण्यायुरस्य। षोडशसु सागरोपमेषु गतेषु पोतनपुरे विकटो राजा राज्यं कुर्वन् राजसिंहेन राज्ञा भुजयुद्धे निर्जितः । ततो लज्जितो राज्यं परित्यज्य प्रव्रज्य चाऽनशने स्थितः। राजसिंहनृपोच्छेदाय समर्थो भूयासमहमिति सनिदानो मृत्वेशाने द्विसागरोपमायुर्देवो जातः ।। राजसिंहनृपोऽपि भवं भ्रान्त्वाऽस्मिन्नेव भरताः हरिपुरे निशुम्भो नाम श्यामवर्णः पञ्चचत्वारिंशद्धनूच्चो दशवर्षलक्षायुत्रिखण्डभोक्ता प्रत्यर्द्धचक्री जातः।। अस्मिन्नेव भरतार्द्धऽश्वपुरे शिवो राजा विजया अम्मा च तस्य द्वे भायें। पुरुषवृषभनृपजीवः सहस्राराछ्युत्वा इभेन्दू वृषभः सर इति चतुःस्वप्नसूचितबलजन्मा गौरवर्णः पुत्रो जातः । सुदर्शन इति कृतं तस्य नाम । विकटनरनाथजीवोऽपीशानाच्युत्वा सिंहाभिषेककुम्भाब्धिसूर्याग्नीरत्नसञ्चय इति सप्तस्वप्नसूचितार्द्ध चक्रिजन्मा अम्माकुक्षाववतीर्णः । समये च श्यामवर्णः पुत्रो जातः । पुरुषसिंह इति च कृतं नाम । नीलपीताम्बरौ तालतार्क्ष्यध्वजौ पञ्चचत्वारिंशद्धनूच्चौ द्वौ स्नेहेन वर्तते ।। __अन्यदा प्रान्तभूपालसाधनाय प्रहितः सुदर्शनः पित्रा । ततः स्नेहातिशयात् पुरुषसिंहोऽपि चलितः । सहसैव द्वितीयप्रयाणे च निर्बंधपूर्वं निवर्तितः सीरिणा । परं तदागमनाकाङ्क्षी स्थितश्चिरतरं तत्र सः। इतश्च दाहज्वरार्तेन पित्रा तत्कालमेव प्रहितमाकारणम् । गतः पितृसमीपे। पुरुषसिंहो मिलितः पित्रोः । परमनिवर्त्तको रोग इति तमनुज्ञाप्य जनन्या वह्निरह्नाय साधितः । ततः पितापि प्राप्तः पञ्चत्वम् । कृतमनेन सर्वमौर्ध्वदेहिकाद्यम् । लब्धविजयश्चागतः सीरी ।। यावच्छोकाकुलौ तौ तिष्ठतस्तावनिशुम्भेन प्रहितस्तयोरन्तिकं स्वदूतः । Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003692
Book TitleTrishashti Shalaka Purush Charitram
Original Sutra AuthorN/A
AuthorJineshchandravijay
PublisherRander Road Jain Sangh
Publication Year2008
Total Pages234
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy