SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरित्रम् ____ इत्याद्याकर्ण्य बहवः प्रतिबुद्धाः प्राणिनः प्रवव्रजुर्जगृहुश्च सम्यक्त्वादिकम्। अरिष्ठादयस्त्रिचत्वारिंशद् गणधराः स्थापिताः । प्रभुतीर्थे किन्नरो यक्षः । स च त्रिमुखः कूर्मस्थो रक्तवर्णो दक्षिणैर्मातुलिङ्गगदाभृदभयदैर्वामैनकुलपद्माक्षमालावद्भिदोभिर्लक्षितः । कन्दर्पा च शासनदेवी । सा च गौरा मत्स्यस्था उत्पलाङ्कुशभृद् दक्षिणदोर्द्वया पद्मधराभयदवामद्विभुजा।। अन्यदा प्रभुरश्वपुरे समवसृतः। तत्र वन्दितुमागतौ सुदर्शनपुरुषोत्तमौ। प्रतिबुद्धौ च जगृहतुः सम्यक्त्वम्।। सर्वपरिवारे च प्रभोः साधूनां चतुःषष्ठिसहस्री । साध्वीनां द्वाषष्ठिसहस्री चतुःशती च । चतुर्दशपूर्विणां पञ्चशती । अवधिज्ञानिनां त्रिसहस्री षट्शती च मनःपर्ययिणां पञ्चचत्वारिंशच्छती । केवलिनामप्येवम् । वैक्रियलब्धिमतां सप्तशती। वादिनामष्टाविंशतिशतानि । श्रावकाणां लक्षद्वयी चत्वारिंशत् सहस्री च । श्राविकाणां चतुर्लक्षी त्रयोदशसहस्री च ।। आसन्नमोक्षश्च प्रभुर्मुनिवराणामष्टाभिः शतैः समं सम्मेताद्रौ गत्वा मासमनशन्यूर्ध्वस्थ एव ज्येष्ठशुक्लपञ्चम्यां पुष्ये सर्वकर्मक्षयाद् मुक्तिसुखभाग बभूव। मोक्षमहिमा च प्राग्वत् । अनन्तनाथनिर्वाणाच्चत्वारिसागरोपमानि श्रीधर्मनाथमोक्षस्यान्तरम् । कौमारे वर्षाणां लक्षद्वयं सार्द्धम् । राज्ये पञ्चलक्षाः । व्रते लक्षद्वयी सार्छ। एवं दशवर्षलक्षाः प्रभोः सर्वायुः ।। श्रीधर्मनाथस्य चरित्रमेतजागर्ति निर्यामकवद् यदीये । मनोवहित्रे न हि तस्य पारं, दूरेऽन्तरे संसृतिसागरस्य ।।१५५।। (उपजातिः) Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003692
Book TitleTrishashti Shalaka Purush Charitram
Original Sutra AuthorN/A
AuthorJineshchandravijay
PublisherRander Road Jain Sangh
Publication Year2008
Total Pages234
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy