________________
त्रिषष्टिशलाकापुरुषचरित्रम्
९७
अनेनैव भावेन प्रवर्द्धमानवैराग्यः सहसैव राज्यमुत्सृज्य विमलवाहनगुरुपार्श्वे प्रव्रजितः । तीव्रं च तपस्तप्त्वाऽर्हद्भक्तयादिभिः स्थानकैस्तीर्थकरनामकर्मोपार्ज्य समाधिना च मृत्वा वैजयन्ते विमाने देवो जातः । ।
जम्बूद्वीपे भरतार्द्धेऽत्रैव रत्नपुरे भानुर्नृपः । सुव्रता पट्टराज्ञी । वैशाखशुक्लसप्तम्यां पुष्ये वैजयन्ताद् दृढरथनृपजीवश्च्युत्वा सुव्रतादेव्याः कुक्षाववतीर्णः । माघशुक्लतृतीयायां पुष्ये वज्रलाञ्छनः स्वर्णवर्णः पञ्चचत्वारिंशद्धनुर्मानो दशवर्षलक्षायुश्चतुर्दशस्वप्नसूचिततीर्थकरजन्मा ज्ञानत्रयधरः पुत्रो जातः । जन्मोत्सवः प्राग्वत् । गर्भस्थे प्रभौ जनन्या विशेषतो धर्मोद्यमः समभूदिति पित्रा महोत्सवपूर्वं धर्म इति कृतं नाम प्रभोः । प्राप्ततारुण्यश्च कारितः पित्रा राजपुत्र्याः पाणिग्रहणोत्सवम् । जन्मतो वर्षलक्षद्वये सार्द्ध गते पित्राऽभिषिक्तः स्वराज्ये ।।
पञ्चवर्षलक्षीमतिक्रम्य राज्ये सांवत्सरिकं दानं दत्त्वा शक्रादिकृतनिष्क्रमणोत्सवः षष्ठेन तपसा वप्रकाञ्चनोद्याने माघशुक्लत्रयोदश्यां पुष्येऽपराह्ने राज्ञां सहस्रेण समं शक्रन्यस्तदेवदृष्यः पश्चिमवया मयावद्यं निषिद्धमिति प्रपन्नवान् प्रव्रज्याम् । मन:पर्ययज्ञानं चोत्पन्नम्। शक्रोऽपि प्रक्षिप्य क्षीराब्धौ प्रभुकेशान् कृतः (-त)नन्दीश्वरयात्रः सम्प्राप्तः स्वं स्थानम् । द्वितीयेऽह्नि सोमनसे पुरे धर्मसिंहनृपगृहे परमान्नेन चकार प्रभुः पारणम् । पञ्चदिव्यानि तत्राविर्भूतानि । अत्रान्तरे सुदर्शनादीनामुत्पत्तिः । ।
प्रभुरपि वर्षद्वयमन्यत्रान्यत्र विहृत्य पुनर्वप्रकाञ्चनोद्याने समायातः । पौषपूर्णिमायां पुष्ये कृतषष्ठस्य दधिपर्णतरुतलस्थस्य पूर्वाह्णे केवलज्ञानमुत्पन्नम् । समवसरणादिकं च प्राग्वत् । समायाताः शक्रादयः । कृता प्रभुणा । देशना
लोकोत्तरा मनसि यस्य कृपा त्रपा च, यस्याऽतिनिर्मलतमो विनयो नयश्च ।
पापाय यस्य न धनं न च यौवनं च,
च्छेकः स एकतम एव नरो नृलोके ।। १५४ । । ( वसन्ततिलका)
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org