SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरित्रम् द्वारकायाम् । कृतस्तत्रार्द्धचक्रित्वाभिषेकः । अन्यदा समवसृतस्तत्रानन्तजिनः। गतौ तौ वन्दितुम् । प्रतिपन्नं द्वाभ्यामपि सम्यक्त्वम् ।। आसन्नावसानश्च पुरुषोत्तमः शमसंवेगादिकं परित्यज्य क्रुरान्तरात्मा मृत्वा षष्ठिं पृथ्वी प्राप्तवान् । कौमारे वर्षाणां सप्तशती । मण्डलिकत्वे त्रयोदशशती । दिग्जयेऽशीतिः । राज्य एकोनत्रिंशल्लक्षाः सप्तनवतिसहस्राः नवशती विंशतिश्च । एवं पुरुषोत्तमस्य त्रिंशद्वर्षलक्षाः सर्वायुः । सुप्रभोऽपि भ्रातृविरहवैराग्यात् प्रव्रज्य कर्मक्षयाद् मोक्षं प्राप्तवान् । पञ्चपञ्चाशद्वर्षलक्षाः सुप्रभस्य सर्वायुरिति।। ।।समाप्तम्।। । ।।श्रीधर्मनाथचरित्रम्।।। लोष्टोऽपि चिन्तितमणिर्दुमकोऽपि कल्पः, शाखी जरत्यपि गवी नवकामधेनुः । यत्राममन्त्रसततस्मृतितो नृणां स्याद्, देवः कुकर्महतयेऽस्तु स धर्मनाथः ।।१५२।।(वसन्ततिलका) धातकीखण्डे प्राग्विदेहे भरतविजये भद्रिलपुरे दृढरथो राजा प्रजामनुशास्ति। अन्यदा स राजा समयान्तरदृष्टतारुण्यां पलितकलितमौलिमेकां नायिका निरीक्ष्य चिन्तितवान् यस्याः कान्तितिरोहिते वपुषि न, पापु प्रचारं दृशो, यूनां तैर्बहुमन्यते स्म तदपि, स्वात्मा यदालोकनात् । कन्दर्पोरंगमुक्तकञ्चकनिभान् तान् बिभ्रती मूर्द्धजान्, मूढस्यापि बलादियं नयति मे, चेतो विरक्तिं प्रति ।।१५३।। (शार्दूलविक्रीडितम्) Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003692
Book TitleTrishashti Shalaka Purush Charitram
Original Sutra AuthorN/A
AuthorJineshchandravijay
PublisherRander Road Jain Sangh
Publication Year2008
Total Pages234
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy