________________
त्रिषष्टिशलाकापुरुषचरित्रम्
९५ मलयभूस्वामी चण्डशासनो नाम राजा तस्य गृहे मित्रमित्यायातः । प्राघुणो निमन्त्रितः समुद्रदत्तेन राज्ञा । कृतं स्वागतम् । भोजनावसरे च दृष्टा तेन नन्दा । क्षुब्धश्चित्ते कृतं नन्दाहरणे मनः । विश्वास्य च समुद्रदत्तं नन्दां हत्वा गतः स स्वं स्थानं । प्रत्याहर्तुमसमर्थश्च समुद्रदत्तोऽपमानेन वैराग्येण राज्यं हित्वा श्रेयांसमुनिपार्श्वे प्रव्रजितः । अत्युग्रं च तपस्तप्त्वा प्रान्तसमये नन्दाहर्तुर्वधाय स्यामिति कृतनिदानो मृत्वा सहस्रारे देवो जातः ।।
चण्डशासनजीवोऽपि भवं भ्रान्त्वाऽत्रैव भरते पृथ्वीपुरे विलासो नाम राजा। गुणवती तस्य भार्या । तयोः प्रशस्यलक्षणः पुत्रो जातः । स च मधुरिति नाम्ना त्रिंशद्वर्षलक्षायुः पञ्चाशद्धनूच्चः। सर्वोत्कटकैटभश्च तस्य सोदरः।।
द्वारकापुर्यां सोमो राजा । सुदर्शना सीता च तस्य द्वे भार्ये । सहस्राराद् महाबलजीवश्च्युत्वा सुदर्शनाकुक्षाववतीर्णः । इभेन्दू वृषभः सर इति चतुःस्वप्नसूचितबलभद्रजन्मा पुत्रो जातः । कृतं च सुप्रभ इति तस्य नाम । समुद्रदत्तजीवोऽपि सहस्राराच्युत्वा सीताकुक्षाववतीर्णः । सिंहाभिषेककुम्भाब्धिसूर्याग्नीरत्नसञ्चय इति स्वप्नसूचितार्द्धचक्रिजन्मा पुत्रो जातः । कृतं च पुरुषोत्तम इति तस्य नाम । तौ च गौरश्यामौ तालगरुडध्वजौ पञ्चाशद्धनूच्चौ द्वौ स्नेहेन वर्तेते।। .
एवं च तौ महाप्राणादिगुणगणालङ्कृताङ्गौ दृष्ट्वा कलहकौतुकी नारदो मधुपार्श्वे गतः । मधुना प्रोक्तम्- मुने ! किं ते प्रियं करोमि ? कं वा देशं ददामीति । तेनोक्तम्- मधो ! मुधैव गर्जसि ! कस्त्वमिदानीं भरतार्द्ध ! सम्प्रति सोमसुतौ प्रतिबन्धको भवदीयलक्ष्म्या इति । ततः कोपकम्प्रो मधुः सर्वसन्नाहेन गतः सहसैव द्वारकां प्रति । तावप्यागतौ सम्मुखम् । युध्यमानानां च तेषां क्षीणान्यायुधानि । क्षिप्तं मधुना चक्रम् । तेनैव चक्रेण पुरुषोत्तमश्चिच्छेद मधुमूर्धानम् । पुरुषोत्तमशिरसि च पपात पुष्पवृष्टिः । जयत्यर्द्धचक्री पुरुषोत्तम इत्यदुष्टं देवमागधैः । तस्मादेवस्थानाद्गतः पुरुषोत्तमो दिग्जयार्थम् । साधितभरतार्द्धश्च समागतो मगघेषु मधुद्विट् । दृष्टा तत्र कोटिशिला । समुत्पाट्योरस्थलं यावत् पुनस्तेन मुक्ता स्वस्थाने एव । क्रमेणागतो
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org