________________
९४
त्रिषष्टिशलाकापुरुषचरित्रम्
यशःप्रभृतयः पञ्चाशच गणधराः प्रभुणा प्रतिष्ठिताः । प्रभुतीर्थे पातालो यक्षः । स च त्रिमुखो मकरस्थो रक्तवर्णः पद्मखड्गपाशिभिर्दक्षिणैर्नकुलफलकाक्षसूत्रिभिश्च त्रिभिर्वामैर्भुजैर्युक्तः । अङ्कुशा शासनदेवी । सा च गौरा पद्मस्था खड्गपाशिभ्यां दक्षिणाभ्यां फलकाङ्कुशिभ्यां वामाभ्यां दोर्भ्यां युक्ता ।।
अन्यदा प्रभुर्द्वारकायां समवसृतः तत्र च समागतौ वन्दितुं सुप्रभपुरुषोत्तमौ गृहीतस्ताभ्यां प्रतिबुद्धाभ्यां सम्यक्त्वमूलो गृहस्थधर्मः । प्रभोरपि सर्वपरिवारे साधूनां षट्षष्टिसहस्राः । चतुर्दशपूर्विणां नवशती । अवधिज्ञानिनां त्रयश्चत्वारिंशच्छती । मनःपर्यायिणां पञ्चचत्वारिंशच्छती । केवलिनां पञ्चसहस्री । वैक्रियलब्धिमतामष्टसहस्त्री । वादिनां द्वात्रिंशच्छती । साध्वीनां द्वाषष्ठिसहस्राः । श्रावकाणां लक्षद्वयी षष्ठिशती च । श्राविकाणां चतुर्लक्षी चतुर्दशसहस्री च । ।
I
आसन्नमोक्षश्च सप्तसाधुसहस्त्रया समं सम्मेताद्रौ गत्वा मासमनशन्यूर्ध्वस्थ एव चैत्रशुक्लपञ्चम्यां रेवत्यां सर्वकर्मक्षयाद् मोक्षसुखमनः प्रभुर्बभूव । मोक्षमहिमा च प्राग्वत् । कौमारे वर्षाणां सप्तलक्षी सार्द्धा । राज्ये पञ्चदशलक्षी । व्रते सप्तलक्षी सार्द्धा । एवं त्रिंशद्वर्षलक्षाः प्रभोः सर्वायुः । विमलस्वामिमोक्षान्नवसु सागरोपमेषु गतेषु श्रीमदनन्तजिनस्य मोक्षः ।।
श्रीमदनन्तजिनेन्दोश्चरितार्थश्चान्दनो रस इवाऽयम् ।
हृदि विलसन् पुण्यवतां व्यपनयतां कर्मघर्मरुजम् ।। १५१ ।। (आर्या)
।।।सुप्रभ-पुरुषोत्तम मधु-कैटभानां चरित्रम् ।। ॥
जम्बूद्वीपे प्राग्विदेहेषु नन्दपुर्यां महाबलो राजा राज्यं प्रोज्झ्य वृषभमुनिपार्श्वे प्रवव्राज । तपस्तप्त्वा समाधिना च मृत्वा सहस्रारे देवो जातः । ।
अस्मिन्नेव भरतार्द्धे कौशाम्ब्यां समुद्रदत्तो राजा । नन्दा पट्टराज्ञी । अन्यदा
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org