________________
त्रिषष्टिशलाकापुरुषचरित्रम् जम्बूद्वीपे दक्षिणभरतार्द्धऽयोध्यायां सिंहसेनो राजा । सुयशा: पट्टराज्ञी । श्रावणश्यामसप्तम्यां रेवत्यां प्राणताच्युत्वा पद्मरथनृपजीवश्चतुर्दशस्वप्नसूचिततीर्थकरजन्मा सुयशःकुक्षाववतीर्णः । वैशाखकृष्णत्रयोदश्यां रेवत्यां श्येनलाञ्छनः स्वर्णवर्णः पञ्चाशद्धनूञ्चस्त्रिंशद्वर्षलक्षायुर्ज्ञानत्रयधरः पुत्रो जातः । जन्मोत्सवश्च प्राग्वत् । गर्भस्थे प्रभौ पित्रा परबलमनन्तं जितम् । ततोऽनन्तजित् इति महोत्सवपूर्वं कृतं प्रभो म । प्राप्ततारुण्यश्च कारितः प्रधानराजपुत्र्याः पाणिग्रहणम् । जन्मतोऽर्द्धाष्टमेषु गतेषु वर्षलक्षेषु स्थापितः पित्रा राज्ये ।।
पञ्चदशवर्षलक्षाणि राज्यं प्रपाल्य सांवत्सरिकं दानं दत्त्वा कृतषष्ठः शक्रादिकृतनिष्क्रमणोत्सवः सहस्राम्रवणे गत्वा वैशाखकृष्णचतुर्दश्यां रेवत्यामपराह्ने नृपसहस्रेण समं शक्रन्यस्तदेवदूष्यधारी कृतपञ्चमुष्टिककेशोत्पाट: पश्चिमवया मयावा निषिद्धमिति चारित्रं प्रभुः प्रतिपन्नवान् । समुत्पन्नमनःपर्ययज्ञानश्च द्वितीयदिने वर्द्धमानपुरे विजयनृपगृहे परमान्नेन चकार पारणम् । पञ्चदिव्यानि तत्राविर्भूतानि । शक्रोऽपि प्रभुकेशान् क्षीरार्णवे क्षिप्त्वा गतः कृतनन्दीश्वरयात्रः स्वं स्थानम् । अत्रान्तरे सुप्रभादीनामुत्पत्तिर्वाच्या ।।
प्रभुरप्यन्यत्राऽन्यत्र त्रिवर्षी विहत्य पुनः सहस्राम्रवणमागतः । षष्ठेन तपसा अशोकतरुतले ध्यानस्थस्य पूर्वाह्ने वैशाखकृष्णचतुर्दश्यां रेवत्यां प्रभोर्घातिकर्मक्षयात् केवलज्ञानमुत्पन्नम् । समवसरणादिकं च प्राग्वत् । समायाताः शक्रादयः । कृता प्रभुणा देशना
प्राग्वत् सम्प्रतिजीवितव्यममितं, नास्त्येव तन्नीयते, निर्भाग्यैर्मितमप्यरैरिव नरै-र्बम्भ्रम्यमाणैर्वृथा । स्थानस्थैरतिनिर्मलेन लघुना-प्येतेन धन्यैः पुनर्माणिक्येन वणिग्जनैरिव परं, कल्याणमावर्ण्यते ।।१५०।।
(शार्दूलविक्रीडितम्) इत्याद्याकर्ण्य बहुभिः प्रतिबुद्धैः प्राणिभिः प्रव्रज्या सम्यक्त्वादिकं च प्रपेदे।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org