SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ ९२ त्रिषष्टिशलाकापुरुषचरित्रम् दिग्जये नवति वर्षाणि । राज्ये वर्षाणामेकोनषष्ठिलक्षाः पञ्चसप्ततिसहस्राः नवशती दशाधिका । षष्ठिवर्षलक्षायुः सर्वायुरिति । भद्रोऽपि भ्रातृविरहवैराग्याद् मुनिचन्द्रमुनिपादान्ते प्रव्रज्य कर्मक्षयाद् मोक्षं गतः । वर्षाणां पञ्चषष्ठिलक्षाणि भद्रस्यायुरिति । । ।। समाप्तम् ।। । ।। श्री अनन्तनाथचरित्रम् ॥ ॥ दृष्टेन येन रविणेव तमः समस्त मस्तं व्रजत्युदयते दिनमङ्गभाजाम् । तस्य प्रशस्यकमलोन्नतिहेतुधाम्नो, नाम्नः स्मृतिर्जगदनन्तजिनस्य पायात् । । १४८ ।। ( वसन्ततिलका) धातकीखण्डे प्राग्विदेह ऐरावते विजयेऽरिष्टायां पुर्यां पद्मरथो राजा राज्यं पालयति । एकदा तेन राज्ञा ध्यानधारणादिभिर्देहः स्थिरो भवतीति कौलमार्गानुगामिनः केचिदेवं गलगजिं कुर्वाणाः श्रुताः । ततः प्रवृत्तश्चिन्तयितुम्— Jain Educationa International वपुः कारैर्वेदं क इव बहुमानोऽत्र सुधियामध्येऽस्मिन्नात्मस्थितिमतिचिरं कः स्पृहयति । चिराद् वा शीघ्रं वा, भवति यदि कर्मव्यपगमस्तदा सर्वं सिद्धं, सुखमपरथा केवलभवः । । १४९ ।। (शिखरिणी) अनेनैव प्रवर्द्धमानेन भावेन प्रवर्द्धितवैराग्यः सहसैव राज्यं परित्यज्य चित्तरक्षगुरुपार्श्वे प्रव्रजितः । अर्हद्भक्त्यादिस्थानैस्तीर्थकरनामकर्मोपायं दुष्करं तपस्तप्त्वा समाधिना च मृत्वा प्राणतकल्पे पुष्पोत्तरविमाने देवो जातः ।। For Personal and Private Use Only www.jainelibrary.org
SR No.003692
Book TitleTrishashti Shalaka Purush Charitram
Original Sutra AuthorN/A
AuthorJineshchandravijay
PublisherRander Road Jain Sangh
Publication Year2008
Total Pages234
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy