________________
९०
त्रिषष्टिशलाकापुरुषचरित्रम्
समवसृतः भद्रस्वयंभुवौ च तत्रायातौ वन्दितुम् । श्रुत्वा देशनां च प्रतिबुद्धौ । जगृहतुः सम्यक्त्वधर्मम् । प्रभुरप्यन्यत्र विजहार ।।
सर्वपरिवारे च प्रभोः साधुसहस्रा अष्टषष्ठिः । आर्यिकाणामष्टशताधिकं लक्षमेकम् । चतुर्दशपूर्विणामेकादशशती । अवधिज्ञानिनामष्टचत्वारिंच्छती । मनः पर्ययिणां केवलिनां च पञ्चपञ्चाशच्छती । वैक्रियलब्धिमतां नवति । वादिनां सहस्रत्रयी द्विशती च । श्रावकाणां साष्टशती लक्षद्वयी । श्राविकाणां लक्षचतुष्टयी चतुस्त्रिंशत्सहस्री च ।।
आसन्नमोक्षश्च प्रभुः षड्भिः साधूनां सहस्रैः समं सम्मेतगिरौ गत्वा मासमनशन्यूर्ध्वस्थ एवाऽऽषाढकृष्णसप्तम्यां रेवत्यां मुक्तिसुखभाग् बभूव । मोक्षमहिमा च प्राग्वत् । कौमारे पञ्चदश, राज्ये त्रिंशत्, व्रते पञ्चदशवर्षलक्षाः । एवं षष्ठिरब्दलक्षाः प्रभोः सर्वायुः । श्रीवासुपूज्यमोक्षाद् विमलनाथमोक्षस्य सागरोपमाणि त्रिंशदन्तरमिति । दृढगुणं विमलस्य जिनस्य यः, सुचरितं वहते हृदि वर्मवत् । निविडकर्मसमूहचमूवृतं, जयति मोहमहीशमसौ क्षणात् ।।१४७।। (द्रुतविलम्बितम्)
। ।। भद्र स्वयम्भू - मेरकाणां चरित्राणि ।। i
L
जम्बूद्वीपे परविदेहेषु आनन्दकर्यां पुर्यां नन्दिसुमित्रो राजा राज्यं परित्यज्य सुव्रतसूरिपादान्ते प्रव्रज्य तपस्तप्त्वा समाधिनाऽनसनेन च मृत्वाऽनुत्तरविमानवासी देवो जातः ।
जम्बूद्वीपे भरते श्रावस्त्यां धनमित्रो राजा । तन्मित्रं बलिः । एकदा धनमित्रनृपः स्वं राज्यं पणीकृत्य बलिना समं सारैः क्रीडन् राज्यं हारितवान् । ततो गृहीतं बलिना राज्यम् । निसृतोऽङ्गमात्रेण धनमित्रः । गच्छता च दृष्टः सुदर्शनमुनिः । १ कवचवत् ।। २ अक्षपाशकैः ।।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org