SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरित्रम् पितृभ्यां विमल इति कृतं महोत्सवपूर्वं प्रभोरभिधानम् । प्राप्ततारुण्यश्च पितृभ्यां कारितः प्रधानराजपुत्र्याः पाणिग्रहम् । कौमारे पञ्चदशाब्दलक्षान्ते स्थापितः पित्रा राज्ये ।। त्रिंशतं वर्षलक्षाणि राज्ये निर्गम्य कृतसांवत्सरिकदानः कृतषष्ठतपाः शक्रादिकृतनिष्क्रमणोत्सवः सहस्राम्रवणे गत्वा माघशुक्लचतुर्थ्यामुत्तरभाद्रपदास्वपराह्ने नृपसहस्रेण समं शक्रन्यस्तदेवदूष्यधारी कृतपञ्चमुष्टिककेशोत्पाटः सर्वं सावद्यं मया निषिद्धमिति चारित्रं पश्चिमवयाः प्रभुः प्रपेदे। शक्रोऽपि क्षीरोदक्षिप्तप्रभुकेशः प्रभु नत्वा कृतनन्दीश्वरयात्रः प्राप्तः स्वं स्थानम् । प्रभुरप्युत्पन्नमनःपर्ययज्ञानो द्वितीयेऽह्नि धान्यकूटपुरे जयनृपगृहे परमानेन पारणं कृत्वाऽन्यत्र विजहार । पञ्चदिव्यानि तत्राविर्भूतानि । अत्रान्तरेभद्रादीनामुत्पत्तिः।। मास(वर्ष)द्वयं छद्मस्थः प्रभुर्विहत्य पुनः सहस्राम्रवणे समायातः । जम्बूतरुतलस्थस्य पूर्वाह्न पौषशुद्धषष्ट्यामुत्तराभाद्रपदासु षष्ठतपःस्थस्य प्रभोः केवलज्ञानमुत्पन्नम् । समवसरणादिकं च प्राग्वत् । समायाताः शक्रादयः। कृता प्रभुणा देशना नासाया श्वसितं रुणद्धि सुदृढं पर्यङ्कमभ्यस्यति, स्कन्धे न्यस्यति योगपट्टकमट-त्रश्नाति गायत्यपि । रागत्यागजितेन्द्रियत्वनिखिला-ऽवद्यक्रियावर्जनात्, यत्साध्यं पदमव्ययं तदबुधा लोकोऽन्यथाऽपीच्छति।।१४६।। (शार्दूलविक्रीडितम्) इत्याद्याकर्ण्य बहुभिः प्रतिबुद्धर्जनैः प्रव्रज्या सम्यक्त्वादिकं च प्रतिपेदे । मन्दरादयश्च सप्तपञ्चाशद्गणधराः स्थापिताः प्रभुणा । प्रभुतीर्थे षण्मुखो यक्षः । स च शिखिवाहनो गौरः फलचक्रषुखड्गपाशाक्षसूत्रभृद्भिर्दक्षिणैर्नकुलचक्रधनु:फलकाङ्कुशभृदभयदैर्वामैर्भुजैर्युक्तः । विदिता शासनदेवी । सा च स्वर्णवर्णा पद्मासना बाणपाशभृद्दक्षिणदोर्द्वया धनुर्नागभृद्वामभुजयुगा । अन्यदा प्रभुरवत्यां Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003692
Book TitleTrishashti Shalaka Purush Charitram
Original Sutra AuthorN/A
AuthorJineshchandravijay
PublisherRander Road Jain Sangh
Publication Year2008
Total Pages234
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy