SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ ८८ त्रिषष्टिशलाकापुरुषचरित्रम् ।।श्रीविमलनाथचरित्रम्।। । देवः स वो विमलतां विमलस्तनोतु, चित्तस्य संसृतिविकारमलाविलस्य । अग्रे यदीयमनसः स्फटिकाश्मनोऽपि, वैमल्यमस्ति किमुपाधिमलीमसस्य ।।१४४।। (वसन्ततिलका) धातकीखण्डे प्राग्विदेहे भरतविजये महापुर्यां पद्मसेनो राजा प्रजामनुशास्ति। स चैकदा दुष्कराणि कर्माणि कुर्वाणं प्रसिद्धकार्पण्यं व्यवहारिणमेकं दृष्ट्वा चिन्तितवान् यत्पाणिः करिणीकपोलतलवद्, दानानऽभिज्ञः सदा, पोषो न क्रियते शिशोरिव 'पिकः, स्वस्यापि देहस्य यैः। तीर्थे क्वाप्यतिपावने सुतपसा, केनापि कस्मादपि, ध्यानस्थानलयानृजन्मसफलं, किं स्वं न ते कुर्वते ।।१४५।। (शार्दूलविक्रीडितम्) अनयैव भावनया प्रवर्धमानवैराग्यः परित्यज्य राज्यं सर्वगुप्तगुरुपार्श्वे गत्वा प्रवव्राज । तत्वातिदुस्तपं तपोऽहंदादिस्थानाराधनेन समुपाय॑ तीर्थकरनामकर्म समाधिना च मृत्वा सहस्रारे देवो जातः ।। __ जम्बूद्वीपे भरते काम्पिल्ये कृतवर्मा नृपः श्यामा पट्टराज्ञी । वैशाखशुक्लद्वादश्यामुत्तराभाद्रपदासु पद्मसेननृपजीवः सहस्राराछ्युत्वा तस्याः कुक्षाववतीर्णः। माघशुक्लतृतीयायामुत्तराभाद्रपदासु चतुर्दशस्वप्नसूचिततीर्थकरजन्मा सूकराङ्क: स्वर्णवर्णस्त्रिषष्टिधनुर्मानः षष्ट्यब्दलक्षायुर्ज्ञानत्रयधरः सर्वलक्षणसम्पूर्णः पुत्रो जातः । जन्मोत्सवश्च प्राग्वत् । गर्भस्थे च प्रभौ विशेषतो जननी विमलतमा जाता । ततः १ कोकिलैः।। Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003692
Book TitleTrishashti Shalaka Purush Charitram
Original Sutra AuthorN/A
AuthorJineshchandravijay
PublisherRander Road Jain Sangh
Publication Year2008
Total Pages234
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy