________________
त्रिषष्टिशलाकापुरुषचरित्रम्
८७
विन्ध्यशक्तिरपि मृत्वा भवं भ्रान्त्वा जिनधर्ममाराध्य क्रमेण कल्पवासी देवोऽभवत् । ततयुत्वा विजयपुरे श्रीधर श्रीमत्योः सप्ततिधनुञ्चश्यामो द्विशप्तत्यब्द- लक्षायुः पुत्रो जातः । तारक इति च पितृभ्यां कृतं नाम । स च पितुः पार्श्वात् चक्रं प्राप्य भरतार्द्धमसाधयत् ।।
I
इतश्च द्वारकायां ब्रह्मा नाम राजा । तस्य सुभद्रा उमा च द्वे भायें। पवनवेगजीवोऽनुत्तरविमानाच्युत्वा सुभद्राकुक्षाववतीर्णः । इभेन्दूवृषभसर इति चतुःस्वप्नसूचितबलजन्मा गौरः सप्ततिधनुर्मानः पादोनकोटिवर्षायुः समये पुत्रो जातः । कृतं विजय इति तस्य नाम ।।
इतश्च प्रणताच्युत्वा पर्वतकजीव उमाकुक्षाववतीर्णः । सिंहाभिषेककुम्भाब्धिसूर्याग्निरत्नसञ्चय इति सप्तस्वप्नसूचितार्द्धचक्रिजन्मा श्यामः सप्ततिधनुर्मानो द्वासप्ततिवर्षलक्षायुः पुत्रो जातः । तस्य च द्विपृष्ठ इति कृतं नाम । नीलपीताम्बरयोः तालगरुडध्वजयोस्तयोरन्योऽन्यमतिप्रीतिर्जाता । अन्यदा तयोः कुमारयोः लीलायितं तारकाज्ञासमुल्लङ्घनहेवाकं च दृष्ट्वा हेरिकस्तारकाय गत्वा शशंस । सोऽपि सर्वाभिसारेण तद्वधायाऽऽयातः । ताभ्यामप्यभिमुखमागत्य युद्ध्वा हतश्चक्रेण तारकः । सुरैश्च जयति द्विपृष्ठोऽर्धचक्रीत्युद्घोष्य क्षिप्ता तच्छिरसि पुष्पवृष्टिः ।।
द्विपृष्ठेन च मागधादिषु स्थानेषु दिग्विजयं कृत्वा साधितं भरतार्द्धाम्। व्यावर्तमानेन च मगधेषु दृष्टा कोटिशिला । तां च वामदोष्णा सलीलमुत्पाट्य नीत्वा ललाटतटीं यावत् पुनर्मुमोच स स्वस्थाने । समायातस्य द्वारकायां जातोऽर्द्धचक्रित्वाभिषेकस्तस्य । समये च समवसृतस्य श्रीवासुपूज्यस्य पादमूले गत्वा द्वाभ्यामपि प्रतिपन्नं सम्यक्त्वम् । आयुःशेषश्च द्विपृष्ठोऽधिकतरक्रूरकर्मा मृत्वा षष्ठीं पृथ्वीं प्राप्तः । द्विपृष्ठस्य कौमारे पादोनमब्दलक्षम् । तदेव मण्डलिकत्वेऽपि । दिग्जये वर्षशतम्। राज्ये सप्तत्यब्दलक्षी नवशताधिकैकोनपञ्चाशत्सहस्त्री च । एवं द्वासप्ततिलक्षी वर्षाणामित्यायुः । इतश्च विजयोऽपि भ्रातृविरहवैराग्याद् विजयसूरिपादान्ते प्रव्रज्य कर्मक्षयाद् मोक्षं गतः । पादोनकोटिः वर्षाणां विजयस्य सर्वायुरिति ।। ।। विजय - द्विपृष्ठ - तारकचरितं समाप्तम् ।।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org