________________
त्रिषष्टिशलाकापुरुषचरित्रम् मेकषष्ठिशती। केवलिनां षट्सहस्री । वैक्रियलब्धिमतां सहस्रमेकम् । वादिनां सप्तचत्वारिंशच्छती। श्रावकाणां द्वेलक्षे पञ्चदशसहस्री । श्राविकाणां चतुर्लक्षी षट्त्रिंशत्सहस्री च ।।
___ आसन्नमोक्षश्च चम्पायां गत्वा षड्भिर्मुनिशतैः समं मासमनशन्यूर्ध्वस्थ एवाषाढशुक्लचतुर्दश्यामुत्तराभद्रपदायां सर्वकर्मनिर्मुक्तः प्रभुर्मुक्तिं प्राप । मोक्षमहिमा च प्राग्वत् । कौमारेऽष्टादश । व्रते चतुःपञ्चाशत् । छाद्मस्थ्यमाससमम्। द्वासप्ततिवर्षलक्षाः प्रभोः सर्वायुः । श्रेयांसस्वामिनिर्वाणाद् वासुपूज्यमोक्षस्य सागरोपमाणि चतुःपञ्चाशदन्तरमिति ।।
श्रीवासुपूज्यचरितस्मृतिपूते हृदि सतां वसन्नात्मा । तीर्थाधिवासपुण्यं लभते पुण्यानुबन्धकरम् ।।१४३।। (आर्या)
।।। विजय-द्विपृष्ठ-तारकाणां चरितानि ।।।
पृथ्वीपुरे पवनवेगो राजा राज्यं प्रोज्झ्य प्रव्रज्य तपस्तप्त्वा समाधिना च मृत्वाऽनुत्तरविमाने देवो जातः ।।
जम्बूद्वीपे दक्षिणभरतार्द्ध विन्ध्यपुरे विन्ध्यशक्तिर्नृपः । स चास्थानस्थश्चरेण विज्ञप्त:- देव ! साकेते पर्वतकराज्ये यादृशी गुणमञ्जरी वेश्या तादृशी क्वापि नास्तीति। ततो विन्ध्यशक्तिना तद्याचनाय स्वमन्त्री पर्वतकपार्श्वे प्रहितः। तेन च याचितेनापि सा नाऽर्पिता । ततः प्रवर्धमानमत्सरौ द्वावपि योद्धं स्वस्वदेशसीमान्तमागतौ। युद्धयमानश्च भीतः सन् पलायितः पर्वतको राजा । जितं विन्ध्यशक्तिना । गृहीतं तदीयं सर्वम्। गुणमञ्जरी च गृहीत्वा गतश्च स्वं पुरम् । पर्वतकोऽपि वैराग्यात् सम्भवसूरिपार्श्वे प्रव्रजितः । तप्त्वा तपः स्वायुःप्रान्तेऽनशनं प्रपन्नो विन्ध्यशक्तिकृतं पराभवं सस्मार । ततो विन्ध्यशक्तिवधाय मे तपोऽस्त्विति स निदानो मृत्वा प्राणते देवो जातः ।।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org