SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरित्रम् ८५ जन्मोत्सवश्च प्राग्वत् । महोत्सवपूर्वं पितृभ्यां कृतं वासुपूज्य इति नाम । प्राप्तस्तारुण्यं परिणायितः पित्रा राजपुत्रीम् ।। जन्मतो वर्षलक्षेष्वष्टादशसु गतेषु फल्गुनामावस्यायां शतभिषज्यपराह्ने कृतचतुर्थो राज्ञां षड्भिः शतैः समं विहारगृहोद्याने गत्वा शक्रन्यस्तदेवदूष्यधारी कृतपञ्चमुष्टिककेशोत्पाटः शक्रादिकृतनिष्क्रमणोत्सवः सर्वं सावद्यं मया निषिद्धमित्यकृतराज्यः पूर्ववयस्येव प्रभुश्चारित्रं प्रपेदे । शक्रादयोऽपि क्षीराब्धिक्षिप्तप्रभुकेशाः कृतनन्दीश्वरयात्राश्च गताः स्वं स्वं स्थानम् । उत्पन्नमन:पर्ययज्ञानः प्रभुर्महापुरे गत्वा द्वितीयेऽह्न सुनन्दनृपगृहे परमान्नेन पारणं चकार । पञ्चदिव्यानि तत्र जातानि । अत्रान्तरे विजयद्विपृष्ठतारकाणामुत्पत्तिर्वाच्या । प्रभुरप्यन्यत्र मासमेकं विहृत्य पुनः सहस्राम्रवणे समायातः। चम्पायाः कृतचतुर्थस्य पाटलितरोरधस्तात् पूर्वाह्ने माघशुक्लद्वितीयायां शतभिषजघातिकर्मक्षयात् प्रभोः केवलज्ञानमुत्पन्नम् । समवसरणादिकं च प्राग्वत् । समायाताः शक्रादयः । कृता प्रभुणा देशना - को नाम मुह्यति मनाग्विषयेषु नैव, वस्तुस्थितिं तु विमृशन्ति विवेकभाजः । यद्यजः सुखमिति प्रतिपद्यते स्म, सा सारुजां प्रतिकृतिर्भ्रम एव सौख्ये । । १४२ ।। ( वसन्ततिलका) इत्याद्याकर्ण्य प्रतिबुद्धैः प्रभूतैः प्राणिभिर्व्रतसम्यक्त्वयोः कृता प्रतिपत्तिः । सूक्ष्मादयः षट्षष्ठिर्गणधराः प्रभुणा स्थापिताः । विहृतवानन्यत्र प्रभुः । । प्रभुतीर्थे कुमारो यक्षः स च हंसस्थो मातुलिङ्गशरिदक्षिणदोर्द्वयो नकुलधनुर्भृद्वामभुजयुगः । चण्डा शासनदेवी । सा च वरदशक्तिभृद्दक्षिणद्विभुजा पुष्पगदाभृद्वामदिग्बाहुः । विहरंश्चान्यदा प्रभुरायातो द्वारकायाम् । कृतं देवैः समवसरणम्। समागतौ वन्दितुं विजयद्विपृष्ठौ । श्रुत्वा प्रभुदेशनां प्रतिबुद्धौ द्वावपि जगृहतुः सम्यक्त्वम्। विजहार चान्यत्र प्रभुः । प्रभोश्च साधूनां द्वासप्ततिः सहस्राः । आर्यिकाणां लक्षमेकम् । पूर्विणां द्वादशशती । अवधिज्ञानिनां पञ्चसहस्री चतुःशती च । मनःपर्ययिणा Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003692
Book TitleTrishashti Shalaka Purush Charitram
Original Sutra AuthorN/A
AuthorJineshchandravijay
PublisherRander Road Jain Sangh
Publication Year2008
Total Pages234
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy