SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ ८४ त्रिषष्टिशलाकापुरुषचरित्रम् । ।। श्रीवासुपूज्यचरित्रम् ।। ॥ पूज्यं पदं स दिशतान्मम वासुपूज्यो, यत्पूजया सकृदनुष्ठितयापि लोकः । स्वं मन्यते पृथगवस्थितमेव साध्यो, निःसीमभीमभवदुः खपरम्पराभ्यः । । १४० ।। (वसन्ततिलका) पुष्करवरद्वीपा प्राग्विदेहे मङ्गलावतीविजये रत्नसञ्चयायां पुर्यां पद्मोत्तरो राजा राज्यं पालयति। एकदा तस्मिन् राजन्यास्थानस्थे समागत्यैकेन श्रेष्ठिना स्वकीय एकः सगुणः पुत्रः स्वसमृद्धिभाजनं कारितः । द्वितीयश्चान्यायवर्त्ती दोषवानिति सर्वस्वबाह्यः कारितः । ततो राज्ञा चिन्तितम् - तत्पार्श्वे वसतिः श्रियः समुचितैर्वाम्भोभिरम्भोजिनी पत्राणीव नयन्मनांस्यपि परिस्पृष्टानि दोषैः क्वचित् । सर्वाङ्गं मलयद्रुवद्विषधरैस्तैर्वेष्टिता ये पुनर्मूलोच्छेदनिमित्तमेव सकलास्तद्वृद्धयो निष्फलाः । । १४१ । । (शार्दूलविक्रीडितम्) अनेनैव भावेन प्रवर्द्धमानवैराग्यः परित्यज्य राज्यं प्रव्रज्य वज्रनाभगुरोः पार्श्वेऽर्हदादिस्थानाराधनेन तीर्थकरनामकर्म समुपार्ज्य समाधिना च मृत्वा प्राणतकल्पे देवो जातः ।। Jain Educationa International जम्बूद्वीपे दक्षिणभरताद्धे चम्पायां वसुपूज्यो राजा जयादेवी । ज्येष्ठशुक्ल नवम्यां शतभिषजि पद्मोत्तरनृपजीवः प्राणताच्च्युत्वा चतुर्दशमहास्वप्नसूचिततीर्थकरजन्मा जयादेव्याः कुक्षाववतीर्णः । फाल्गुनकृष्णचतुर्दश्यां शतभिषणि रक्तवर्णो महिषाङ्कः सप्ततिधनुर्मानो द्वासप्ततिवर्षलक्षायुर्ज्ञानत्रयधरः सम्पूर्णसर्वलक्षणः पुत्रो जातः । For Personal and Private Use Only www.jainelibrary.org
SR No.003692
Book TitleTrishashti Shalaka Purush Charitram
Original Sutra AuthorN/A
AuthorJineshchandravijay
PublisherRander Road Jain Sangh
Publication Year2008
Total Pages234
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy