SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ ८२ त्रिषष्टिशलाकापुरुषचरित्रम् प्रभुः पोतनपुरे । जातं तत्र समवसरणम् । कृता प्रभुणा देशना । प्रतिबुद्धाभ्यां च तत्राऽचलबलभद्रत्रिपृष्ठाभ्यां गृहीतं सम्यक्त्वम् । जातौ परमश्रावको । प्रभुतीर्थ ईश्वरो यक्षः । स च त्र्यक्षो गौरो वृषभस्थो मातुलिङ्गगदाभृदक्षिणदोर्द्वयो नकुलाक्षसूत्रिवामभुजयुगः । मानवी च शासनदेवी । सा च गौरा सिंहस्था वरदमुद्गरिदक्षिणद्विभुजा कलशाङ्कुशिवामभुजयुगा।। सर्वपरिवारे च प्रभोः साधूनां चतुरशीतिसहस्री । साध्वीनां लक्षं त्रिसहस्री च । चतुर्दशपूर्विणां त्रयोदशशतानि । अवधिमनःपर्ययिणां षट्सहस्री । केवलज्ञानिनां सार्द्धा षट्सहस्री । वैक्रियलब्धिमतामेकादशसहस्री । वादिनां पञ्चसहस्री । श्रावकाणां द्वे लक्षे । श्राविकाणां चतुर्लक्ष्यष्टचत्वारिंशत्सहस्राश्च ।। __आसन्नमोक्षश्च मुनिसहस्रेण समं सम्मेताद्रावूर्ध्व एव मासमनशनेन स्थितः श्रावणकृष्णतृतीयायां धनिष्ठायां प्रभुः क्षीणाशेषकर्मा निर्वाणसुखमवाप । मोक्षमहिमा च प्राग्वत् । कौमार एकविंशतिवर्षलक्षी । राज्ये द्वाचत्वारिंशद्वर्षलक्षी । व्रते एकविंशतिवर्षलक्षी । एवं प्रभोः सर्वायुः चतुरशीतिवर्षलक्षाण्यायुः । श्रीशीतलमोक्षाच्छ्रेयांसमोक्षश्च(स्य?) सागरोपमशतेन न्यूना सागरोपमकोटि: षट्लक्षाणि षड्विंशतिसहस्राश्चान्तरम् ।। श्रेयांसतीर्थेशचरित्ररत्ना-लङ्कारपूते श्रवसी यदीये । तदीयमास्याम्बुजमीक्षमाणा, कल्याणलक्ष्मी यति स्वजन्म।।१३९।। (इन्द्रवज्रा) ।।।अचलत्रिपृष्ठाश्वग्रीवाणां च चरितानि।।। - यथा- प्राग्विदेहे पुण्डरीकिण्यां सुबलो राजा वैराग्यात् प्रव्रज्य समाधिना च मृत्वाऽनुत्तरविमाने देवो जातः। ततश्च्युत्वा पोतनपुरे रिपुप्रतिशत्रुभद्रयोरिभेन्दू वृषभः सर इति चतुःस्वप्नसूचितबलजन्मा गौरोऽशीतिधनूच्चः पञ्चाशीतिवर्षलक्षायुः पुत्रो जातः । अचल इति कृतं तस्य नाम । तदनन्तरं मृगावतीति नाम्ना पुत्रिका Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003692
Book TitleTrishashti Shalaka Purush Charitram
Original Sutra AuthorN/A
AuthorJineshchandravijay
PublisherRander Road Jain Sangh
Publication Year2008
Total Pages234
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy