________________
त्रिषष्टिशलाकापुरुषचरित्रम् जन्मा विष्णुदेव्याः कुक्षाववतीर्णः। फाल्गुनकृष्णद्वादश्यां श्रवणधै खड्गिलाञ्छनः स्वर्णवर्णोऽशीतिधनुर्मानश्चतुरशीतिलक्षायुर्ज्ञानत्रयधरः सम्पूर्णलक्षण: पुत्रो जातः । जन्मोत्सवः प्राग्वत् । पित्रा च महोत्सवपूर्वं श्रेयसि दिने जातत्वाच्छ्रेयांस इति कृतं नाम । प्राप्ततारुण्यश्च विवाहितः पित्रा राजकन्याम्। जन्मत एकविंशतौ वर्षलक्षेषु गतेषु पित्रा राज्येऽभिषिक्त: । द्वाचत्वारिंशद्वर्षलक्षान्ते सांवत्सरिकं दानं दत्त्वा फाल्गुनकृष्णत्रयोदश्यां श्रवणः पूर्वाह्ने कृतषष्ठो राज्ञां सहस्रेण समं सहस्राम्रवणे गत्वा शक्रन्यस्तदेवदूष्यधारी कृतपञ्चमुष्टिककेशोत्पाटः शक्रादिकृतनिष्क्रमणः पश्चिमवया मयाऽवद्यं निषिद्धमिति प्रभुश्चारित्रं प्रतिपन्नवान् । शक्रादयोऽपि प्रभुकेशान् क्षीराब्धौ क्षिप्त्वा प्रभुं च नत्वा कृतनन्दिश्वरयात्रा गताः स्वं स्थानम् । उत्पन्नमनःपर्ययज्ञानश्च द्वितीयेऽह्नि सिद्धार्थपुरे नन्दनृपगृहे परमानेन प्रभुश्चकार पारणम्। जातानि तत्र पञ्चदिव्यानि । प्रभुरप्यऽन्यत्र विजहार । अत्रान्तरे त्रिपृष्ठस्य प्रथमदाशार्हस्योत्पत्तिः।।
___ अन्यत्रान्यत्र विहत्य छाद्मस्थ्ये वर्षद्वयमतिक्रम्य समागत्य पुनः सहस्राम्रवणेऽशोकतरुतले कृतषष्ठतपसः पूर्वाह्ने माघकृष्णपञ्चदश्यां श्रवणः प्रभोः केवलज्ञानमुत्पन्नम् । समवसरणादिकं च प्राग्वत् । संप्राप्ताः शक्रादयः । कृता प्रभुणा देशना
वाणिज्यव्यवहारशिल्पविभव-प्राक्पुण्यहीनैर्नरैरेकोऽयं निजजीवितव्यसमयः, क्लेशेन निर्गम्यते । येषां जन्मशतं तु याति विविधा-ऽऽधिव्याधिबाधाभृतां, द्रष्टुं ताननलंभविष्णुभिरिव, त्यक्तो मुनीन्द्रर्भवः ॥१३८।।
(शार्दूलविक्रीडितम्) इत्याद्याकर्ण्य प्रतिबुद्धाः प्रभूताः प्राणिनो जगृहुव्रतं सम्यक्त्वादिकं च। गोशुभप्रमुखाः षट्सप्ततिर्गणधराः स्थापिताः प्रभुणा। कुर्वश्च विहारं क्रमेण सम्प्राप्तः १ मास० J पाठः।। २ वासुदेवः ।।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org