SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरित्रम् ७९ रिष्टपुरे पुनर्वसुनृपगृहे परमानेन पारणं कृत्वा विजहाराऽन्यत्र । पञ्चदिव्यानि तत्राविर्भूतानि । त्रीणि वर्षाण्यन्यत्र विहत्य पुनः सहस्राम्रवणे प्राप्तस्य वटतले कृतषष्ठस्य पूर्वाह्न पौषकृष्णचतुर्दश्यां पूर्वाषाढायां प्रभोः केवलज्ञानमुत्पन्नम् । समवसरणादिकं च प्राग्वत्। सम्प्राप्ताः शक्रादयः । कृता प्रभुणा देशना अत्यल्पं मितकालमन्तविरसं, सांसारिकं यत्सुखं, केषाञ्चित्तदपीप्सतामपि मना-ग्मात्रं न सम्पद्यते । नीत्वा केऽपि पुनश्चमत्कृतिकरं, स्वं जन्म सर्वं सुखैरक्लेशेन लभन्त एव सुखितां, स्वर्गेऽपवर्गेऽपि च ।।१३४।। (शार्दूलविक्रीडितम्) इत्याद्याकर्ण्य प्रतिबुद्धाः प्राणिनो जगृहुव्रतम्, सम्यक्त्वादिकं च प्रपेदिरे । एकाशीतिरानन्दाद्याः स्थापिता गणभृतः । प्रभुतीर्थे ब्रह्मनामा यक्षः । स च त्र्यक्षश्चतुर्मुखः पद्मासनः श्वेतो मातुलिङ्गिमुद्गर्यभयदपाशिदक्षिणचतुर्भुजः नकुलगदाङकुशाक्षसूत्रिवामचतुर्भुजो। अशोका शासनदेवी। सा च मुद्गवर्णा पद्मस्था वरदपाशिदक्षिणद्विभुजा फलाङ्कुशिवामभुजयुगा।। त्रिवर्षोनपञ्चविंशतिसहस्राः केवलिपर्यायम् । प्रभोश्च सर्वपरिवारे साधूनां लक्षम् । साध्वीनां षडुत्तरं लक्षम् । चतुर्दशपूर्वभृतां चतुर्दशशती । अवधिज्ञानिनां द्वासप्ततिशती । मनःपर्ययिणां साधु सप्तसहस्री । केवलिनां सप्तसहस्री । वैक्रियलब्धिमतां द्वादशसहस्री । वादिनामष्टपञ्चाशच्छती । श्रावकाणां द्विलक्षी नवाशीतिसहस्री च। श्राविकाणां चतुर्लक्षी साष्टपञ्चाशत्सहस्री ।। आसन्नमोक्षश्च साधुसहस्रेण समं सम्मेताद्रौ गत्वा मासमनशन्यूर्ध्वस्थ एव वैशाखकृष्णद्वितीयायां पूर्वाषाढायां क्षीणाशेषकर्मा प्रभुर्मोक्षसुखैकतानो बभूव। कौमारे पूर्वाणां पञ्चविंशतिसहस्री । राज्ये पञ्चाशत्पूर्वसहस्री । व्रते पञ्चविंशतिसहस्री। एवं पूर्वलक्षं प्रभोः सर्वायुः । सुविधिस्वामिमोक्षात् सागरोपमकोटीषु नवसु गतासु श्रीशीतलस्वामिमोक्षः । मोक्षमहिमा च प्राग्वत् ।। Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003692
Book TitleTrishashti Shalaka Purush Charitram
Original Sutra AuthorN/A
AuthorJineshchandravijay
PublisherRander Road Jain Sangh
Publication Year2008
Total Pages234
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy