________________
त्रिषष्टिशलाकापुरुषचरित्रम् येन प्रतापमहिमा परतीथिकाणा
मामूलतोऽप्युपशमं गमितः समस्तः ।।१३२।।(वसन्ततिलका) पुष्करवरद्वीपार्द्ध प्राग्विदेहे वत्सविजये सुसीमायां पुर्यां पद्मोत्तरो राजा राज्यं पालयति। एकदा रात्रौ प्रदीपे निपततः शलभान् स दृष्ट्वा सदयं चिन्तयामास
लोकैरपायपरिहारनिमित्तमेव, संसेव्यते जगति दीप! भवत्समीपम् । निर्भागधेयतिलकस्य पतङ्गपूग
स्यैतस्य तु त्वमपि हेतुरकालमृत्योः ।।१३३ ।।(वसन्ततिलका) इत्यादिवैराग्यवासनातिरेकेण प्रतिबुद्धः स्वं राज्यं प्रोज्झ्य प्रवव्राज । तत्वा दुस्तपं तपोऽर्हद्भक्त्याद्यैः स्थानकैस्तीर्थकरनामकर्मोपाय॑ समाधिना मृत्वा प्राणते देवो जातः ।।
जम्बूद्वीपे भरतक्षेत्रे भद्रिलपुरे दृढरथराजा । नन्दा पट्टराज्ञी । वैशाखकृष्णषष्ट्यां पूर्वाषाढानक्षत्रे प्राणतदेवलोकाच्युत्वा पद्मोत्तरनृपजीवश्चतुर्दशस्वप्नसूचिततीर्थकरजन्मा नन्दायाः कुक्षाववतीर्णः । माघकृष्णद्वादश्यां पूर्वाषाढायां स्वर्णवर्णः श्रीवत्साङ्को नवतिधनुर्मानः पूर्वलक्षायुर्ज्ञानत्रयधरस्तीर्थकरः पुत्रो जातः । जन्मोत्सवश्च प्राग्वत्। कारितः पूर्यां पित्रा महोत्सवः । गर्भस्थे प्रभौ दाहज्वरतरलं श्रीदृढरथनृपवपुर्नन्दादेव्या स्वपाणिना संस्पृश्य संस्पृश्य शीतलीकृतम्, ततः प्रभोः शीतल इति कृतं पितृभ्यां नाम। समये च कारितः पित्रा राजपुत्र्याः पाणिग्रहणोत्सवः । पूर्वाणां पञ्चविंशतौ सहस्रेषु जन्मतो गतेषु पित्रा प्रभुरभिषिक्तो राज्ये । स्वयं च स्वार्थसाधको जातः ।।
पञ्चाशतं पूर्वसहस्राणि यावद्राज्यं प्रपाल्य दत्तसांवत्सरिकदानः कृतषष्ठो माघकृष्णद्वादश्यां पूर्वाषाढायां शक्रादिकृतनिष्क्रमणोत्सवः सहस्राम्रवणे गत्वा नृपसहस्रेण समं कृतपञ्चमुष्टिककेशोत्पाटः पश्चिमेऽह्रि वयसि च सर्वं सावद्यं मया निषिद्धमिति चारित्रं प्रभुः प्रतिपन्नवान् । मनःपर्ययज्ञानं चोत्पन्नम् । शक्रादयोऽपि क्षिराब्धौ प्रभुकेशान् क्षिप्त्वा प्रभुं नत्वा गताः स्वं स्थानम् । प्रभुरपि द्वितीयदिने
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org