SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरित्रम् च स्वीकृतम् । अष्टाशीतिगणभृतो वराहाद्याः स्थापिताः प्रभुणा । प्रभुतीर्थेऽजितो यक्षः । स च श्वेतः कूर्मस्थो मातुलिङ्गाक्षसूत्रिदक्षिणदोर्द्वयः नकुलकुन्तिवामभुजयुगः । सुतारा शासनदेवी । सा च गौरा वृषभस्था वरदाक्षसूत्रिदक्षिणद्विभुजा कलशाङ्कुशिवामभुजयुगा || सर्वपरिवारे च प्रभोः साधूनां द्विलक्षी । साध्वीनां लक्षं विंशतिसहस्त्री च । अवधिज्ञानिनां चतुरशीतिशती । चतुर्दशपूर्विणां पञ्चदशशती । मनः पर्ययिणां केवलिनां च पञ्चसप्ततिशती । वैक्रियलब्धिमतां त्रयोदशसहस्री । वादिनां षट्सहस्त्री श्रावकाणां द्विलक्ष्येकोनत्रिंशत्सहस्री च । श्राविकाणां चतुर्लक्षी द्वासप्ततिसहस्राश्च । अष्टाविंशत्या पूर्वाङ्गैश्चतुर्मास्या च न्यूनः पूर्वलक्षः केवलिपर्यायः । आसन्नमोक्षसमयः साधुसहस्रेण समं सम्मेताद्रौ गत्वा मासमनशन्यूर्ध्व एव स्थितो भाद्रपदशुक्ल नवम्यां मूले सर्वकर्मक्षयादक्षयसुखभाजनं प्रभुर्बभूव । कौमारे पञ्चाशत्पूर्वसहस्री | राज्येऽपि सैवाष्टाविंशतिपूर्वाङ्गयुता । व्रते पूर्वलक्षोऽष्टाविंशतिपूर्वाङ्गहीनः । पूर्वलक्षद्वयमेवं प्रभोः सर्वायुः । श्रीचन्द्रप्रभमोक्षात् सागरोपमकोटीनां नवतौ गतायां श्रीसुविधिमोक्षः । मोक्षमहिमा च प्राग्वत् । साधूनामभावाच्च शीतलस्वामितीर्थं यावत्तीर्थोच्छेदो जातः । शीतलात् शान्तिजिनं यावत् षट्सु जिनान्तरेषु तीर्थोच्छेदश्च वक्तव्यः ।। ७७ सुविधिजिनचरितमेतद्, वसति श्रीवत्समिव हृदि यदीये । विष्णुरिव भवति जिष्णुः, सगदानुगतस्तु न कदापि । । १३१ । । (आर्या) Jain Educationa International । । । श्रीशीतलचरित्रम् ।। श्रीशीतलः स मम शीतलतां प्रदत्तां, नित्योपतप्तहृदयस्य कषायदावैः । For Personal and Private Use Only www.jainelibrary.org
SR No.003692
Book TitleTrishashti Shalaka Purush Charitram
Original Sutra AuthorN/A
AuthorJineshchandravijay
PublisherRander Road Jain Sangh
Publication Year2008
Total Pages234
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy