________________
७६
त्रिषष्टिशलाकापुरुषचरित्रम्
महापद्मनृपजीवो वैजयन्ताच्युत्वा फाल्गुनकृष्णनवम्यां मूले चतुर्दशमहास्वप्नसूचिततीर्थकरजन्मा तस्याः कुक्षाववतीर्णः । मार्गशीर्ष कृष्णपञ्चम्यां मूले श्वेतवर्णो मकराङ्कः कार्मुकशतोच्चः पूर्वलक्षद्वयायुष्को ज्ञानत्रयधरः सर्वलक्षणसम्पूर्णः पुत्रो जातः । जन्मोत्सवश्च प्राग्वत् । कारितः पुर्यां पित्रा महामहोत्सवः । गर्भस्थे च प्रभौ जननी सर्वेष्वपि विधिषु निपुणा जाता, पुष्पदोहदश्चोत्पन्नस्ततः पितृभ्यां सुविधिः पुष्पदन्तश्चेति नाम द्वयं प्रभोः कृतम् । प्राप्ततारुण्यश्च राजकन्यायाः कारितः पाणिग्रहणोत्सवम् । जन्मतः पूर्वाणां पञ्चाशत्सहस्त्र्यां गतायां पित्राभिषिक्तो राज्ये । स्वयं च स्वार्थसाधको
जातः।।
राज्ये च साष्टाविंशतिपूर्वाङ्गाणि पञ्चाशतं पूर्वसहस्राण्यतिवाह्य सांवत्सरिकं दानं दत्त्वा शक्रादिकृतनिष्क्रमणोत्सवः सहस्राम्रवणे गत्वा मार्गकृष्णषष्ट्यां मूलेऽपराह्ने षष्ठेन तपसा नृपसहस्रेण समं कृतपञ्चमुष्टिककेशोत्पाटः शक्रन्यस्तदेवदूष्यधारी प्रभुः पश्चिमवया मयाऽवद्यं निषिद्धमिति चारित्रं प्रतिपन्नवान् । शक्रादयश्च प्रभोः केशान् क्षीराब्धौ क्षीप्त्वा नत्वा प्रभुं कृत्वा नन्दिश्वरयात्रां गताः स्वं स्थानम् । प्रभुरप्युत्पन्नमन:पर्ययज्ञानो द्वितीयदिने पुष्पनृपगृहे परमान्नेन पारणं कृत्वा विहृतवानन्यत्र । पञ्चदिव्यानि तत्राभूवन् ।।
नानास्थानेषु चतुर्मासीं यावद्विहत्य पुनः सहस्राम्रवणे समायातस्य मालूरतरुतले कृतषष्ठस्य पूर्वाह्णे कार्तिकशुक्ल तृतीयायां मूले प्रभोः केवलज्ञानमुत्पन्नम् । समवसरणादिकं च प्राग्वत् । समायाताः शक्रादयः । कृता प्रभुणा देशना -
एकैकोsपि दुरन्त एव विषयः, केनात्र सर्वेऽप्यमी,
वश्याः स्वस्य कृता न यस्य करणग्रामोऽपि वश्यो निजः । यश्च क्षेत्रकृतेऽनुरागनिगडे: काराकुटुम्बीकृतो,
मोहक्ष्मापतिना क्व तस्य घटते, वार्त्तापि मुक्तिं प्रति । । १३० ।। (शार्दूलविक्रीडितम्)
इत्याद्याकर्णनेन प्रतिबुद्धैर्भूयोभिर्भव्यैः प्रव्रज्या प्रतिपन्ना, सम्यक्त्वादिकं
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org