SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरित्रम् यस्मिन्नन्त-र्वसति मनसो, देहिनामन्तरात्मा, सञ्जायेतां, तरतमतम-स्तोममुक्तः क्षणेन।।१२७ ।। (मन्दाक्रन्ता) ।।श्रीसुविधिचरित्रम्।।। अद्याऽपि लाञ्छनमिषेण यदङ्गसङ्गी, प्रत्यक्ष एव मकरो मकरध्वजस्य । ब्रूते पराजयमयं सनतेर्जनस्य, वैधेयतां स सुविधिविधुनोतु देवः ।।१२८ ।।(वसन्ततिलका) पुष्करवरद्वीपार्द्ध प्राग्विदेहे पुष्कलावतीविजये पुण्डरीकिण्यां महापद्मो राजा राज्यं पालयति । तेन दिग्विजयाय गच्छता मार्गे दृष्टमदृष्टपारप्रायं सरोवरं, व्यावृत्तेन च तदेव रिक्तं दृष्ट्वा चिन्तितम् यदृष्टं शतपत्रपात्रममृत-स्वादाम्बुपूर्णान्तरं, तीरस्थद्रुमकुञ्जपुञ्जितजनं, हंसावतंसं सरः । विश्वप्लोषनिबद्धरोषविषम-ग्रीष्मार्ककार्कश्यतः, पश्याम्यद्य तदप्यनीदृशमसौ, श्रीः कस्य वा शाश्वती ।।१२९ ।। (शार्दूलविक्रीडितम्) अनेनैव वैराग्येण भावितमानसः परित्यज्य राज्यं प्रव्रजितः। तप्त्वा दुस्तपं तपोऽर्हद्भक्त्यादिस्थानकैस्तीर्थकरनामकर्मोपाय॑ समाधिना मृत्वा वैजयन्तविमाने देवो जातः ।। जम्बूद्वीपे भरते काकन्यां नगर्यां सुग्रीवो राजा । रामा नाना पट्टराज्ञी । १ जडताम्।। Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003692
Book TitleTrishashti Shalaka Purush Charitram
Original Sutra AuthorN/A
AuthorJineshchandravijay
PublisherRander Road Jain Sangh
Publication Year2008
Total Pages234
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy