________________
२२२
चित्त-समाधि : जैन योग १०४. तत्त्वं बीजं हठः क्षेत्रमौदासीन्यं जलं त्रिभिः ।
उन्मनी कल्पलतिका सद्य एव प्रवर्तते ।। १०५. सदा नादानुसंधानात्क्षीयन्ते पापसंचयाः ।
निरञ्जने विलीयेते निश्चितं चित्तमारुतौ ।। उन्मनी अवस्था में चेष्टा-रहितता १०६. शंखदुन्दुभिनादं च न शृणोति कदाचन ।
काष्ठवज्जायते देह उन्मन्यावस्थया ध्रुवम् ।। १०७. सर्वावस्थाविनिर्मुक्तः
सर्वचिंताविवजितः । मृतवत्तिष्ठते योगी स मुक्तो नात्र संशयः ।। १०८. खाद्यते न च कालेन बाध्यते न च कर्मणा ।
साध्यते न स केनापि योगी युक्तः समाधिना ॥ १०६. न गंधं न रसं रूपं न च स्पर्श न निःस्वनम् ।
नात्मानं न परं वेत्ति योगी युक्तः समाधिना ॥ ११०. चित्तं न सुप्तं नो जाग्रत्स्मृतिविस्मृतिविजितम् ।
न चास्तमेति नोदेति यस्यासौ मुक्त एव सः ।। १११. न विजानाति शीतोष्णं न दुःखं न सुखं तथा ।
न मानं नापमानं च योगी युक्तः समाधिना ।। ११२. स्वस्थो जाग्रदवस्थायां सुप्तवद्योऽवतिष्ठते ।
निःश्वासोच्छ्वासहीनश्च निश्चितं मुक्त एव सः ।। योगी को सर्वथा अवध्यता ११३. अवध्यः सर्वशस्त्राणामशक्यः सर्वदेहिनाम् ।
अग्राह्यो मंत्रयंत्राणां योगी युक्तः समाधिना ।। ११४. यावन्नैव प्रविशति चरन्मारुतो मध्यमार्गे
यावद्विदुर्न भवति दृढप्राणवातप्रबंधात् । यावद्धयाने सहजसदृशं जायते नैव तत्त्वं तावज्ज्ञानं वदति तदिदं दंभमिथ्याप्रलापः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org