________________
२२०
चित्त-समाधि : जैन योग
७४. तृतीयायां तु विज्ञेयो विहायोमर्दलध्वनिः ।
महाशून्यं तदा याति सर्वसिद्धिसमाश्रयम् ॥ ७५. चित्तानंदं तदा जित्वा सहजानंदसंभवः । दोषदुःखजराव्याधि
क्षुधानिद्राविजितः ॥ ७६. रुद्रग्रन्थि यदा भित्वा शर्वपीठगतोऽनिलः ।
निष्पत्तौ वैष्णवः शब्दः क्वणद्वीणाक्वणो भवेत् ।। ७७. एकीभूतं तदा चित्तं राजयोगाभिधानकम् ।
सृष्टिसंहारकर्तासौ योगीश्वरसमो भवेत् ॥ ७८. अस्तु वा मास्तु वा मुक्तिरत्रैवाखंडितं सुखम् ।
लयोद्भवमिदं सौख्यं राजयोगादवाप्यते ॥ ७६. राजयोगमजानंतः केवलं हठकर्मिणः ।
एतानभ्यासिनो मन्ये प्रयासफलवजितान् ।। ८०. उन्मन्यवाप्तये शीघ्रं भ्रूध्यानं मम संमतम् ।
राजयोगपदं प्राप्त सुखोपायोऽल्पचेतसाम् ।।
सद्यः प्रत्ययसंधायी जायते नादजो लयः ।। ८१. नादानुसंधानसमाधिभाजां, योगीश्वराणां हृदि वर्धमानम् ।
आनंदमेकं वचसामगम्यं, जानाति तं श्रीगुरुनाथ एकः॥ ८२. कौँ पिधाय हस्ताभ्यां यं शृणोति ध्वनि मुनिः ।
तत्र चित्तं स्थिरीकुर्याद्यावस्थिरपदं व्रजेत् । ८३. अभ्यस्यमानो नादोऽयं बाह्यमावणते ध्वनिम् ।
पक्षाद्विक्षेपमखिलं जित्वा योगी सुखी भवेत् ।। ८४. श्रयते प्रथमाभ्यासे नादो नानाविधो महान् ।
ततोऽभ्यासे वर्धमाने श्रूयते सूक्ष्मसूक्ष्मकः ।। ८५. आदौ
जलधिजीमूतभेरीझर्भरसंभवाः । मध्ये मर्दलशंखोत्था घण्टाकाहलजास्तथा । अंते तु किंकिणीवंशवीणाभ्रमरनिःस्वनाः । इति नानाविधा नादाः श्रूयंते देहमध्यगाः ॥ महति श्रूयमाणेऽपि मेघभेर्यादिके ध्वनौ ।
तत्र सूक्ष्मात्सूक्ष्मतरं नादमेव परामृशेत् ।। ८८. घनमुत्सृज्य वा सूक्ष्मे सूक्ष्ममुत्सज्य वा घने ।
रममाणमपि क्षिप्तं मनो नान्यत्र चालयेत् ।। ८६. यत्र कुत्रापि वा नादे लगति प्रथम मनः ।
तत्रैव सुस्थिरीभूय तेन साधं विलीयते ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org