SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ २१८ चित्त-समाधि : जैन योग ४४. इडापिंगलयोर्मध्ये शून्यं चैवानिलं ग्रसेत् । तिष्ठते खेचरी मुद्रा तत्र सत्यं पुनः पुनः ॥ ४५. सूर्याचन्द्रमसोर्मध्ये निरालंबांतरं पुनः । संस्थिता व्योमचक्रे या सा मुद्रा नाम खेचरी । ४६. सोमद्यत्रोदिता धारा साक्षात्सा शिववल्लभा । पूरयेदतुलां दिव्यां सुषुम्नां पश्चिमे मुखे ॥ ४७. पुरस्ताच्चैव पूर्यंत निश्चिता खेचरी भवेत् । अभ्यस्ता खेचरी मुद्राप्युन्मनी संप्रजायते ॥ ४८. भ्रवोर्मध्ये शिवस्थानं मनस्तत्र विलीयते । ज्ञातव्यं तत्पदं तुर्यं तत्र कालो न विद्यते । अभ्यसेत्खेचरी तावद्यावत्स्याद्योगनिद्रितः । संप्राप्तयोगनिद्रस्य कालो नास्ति कदाचन ॥ ५०. निरालंबं मनः कृत्वा न किंचिदपि चिंतयेत् । स बाह्याभ्यंतरे व्योम्नि घटवत्तिष्ठति ध्रुवम् ।। ५१. बाह्यवायुर्यथा लीनस्तथा मध्ये न संशयः । स्वस्थाने स्थिरतामेति पवनो मनसा सह । ५२. एवमभ्यसमानस्य वायुमार्गे दिवानिशम् । अभ्यासाज्जीर्यते वायुर्मनस्तत्रैव लीयते ॥ ५३. अमृतैः प्लावयेदेहमापादतलमस्तकम् । सिद्धयत्येव महाकायो महाबलपराक्रमः ।। ५४. शक्तिमध्ये मनः कृत्वा शक्तिं मानसमध्यगाम् । मनसा मन आलोक्य धारयेत्परमं पदम् ।। ५५. खमध्ये कुरु चात्मानमात्ममध्ये च खं कुरु । सर्वं च खमयं कृत्वा न किंचिदपि चिन्तयेत् ।। ५६. अन्तःशून्यो बहिःशून्यः शून्यः कुम्भ इवांबरे । अन्तःपूर्णो बहिःपूर्णः पूर्णः कुम्भ इवार्णवे ॥ ५७. बाह्यचिंता न कर्तव्या तथैवांतरचिंतनम् । सवाचतां परित्यज्य न किंचिदपि चिंतयेत् ।। ५८. सङ्कल्पमात्रकलनैव जगत्समग्रं । सङ्कल्पमात्रकलनैव मनोविलासः । सङ्कल्पमात्रमतिमुत्सृज निर्विकल्प माश्रित्य निश्चयमवाप्नुहि राम शान्तिम् ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003671
Book TitleChitta Samadhi Jain Yog
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1986
Total Pages288
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy