SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ हठयोगप्रदीपिका २१७ ३२. उच्छिन्नसर्वसङ्कल्पो निःशेषाशेषचेष्टितः । स्वावगम्यो लयः कोऽपि जायते वागगोचरः ।। ३३. यत्र दष्टिर्लयस्तत्र भूतेंद्रियसनातनी । __सा शक्तिीवभूतानां वे अलक्ष्ये लयं गते ॥ ३४. लयो लय इति प्राहुः कीदृशं लयलक्षणम् । अपुनर्वासनोत्थानाल्लयो । विषयविस्मृतिः ॥ शाम्भवी मुद्रा णानि सामान्यगणिका इव । एकैव शांभवी मुद्रा गुप्ता कुलवधूरिव ॥ ३६. अंतर्लक्ष्यं बहिर्द ष्टिनिमेषोन्मेषवजिता । एषा सा शांभवी मुद्रा वेदशास्त्रेषु गोपिता ॥ ३७. अन्तर्लक्ष्यविलीनचित्तपवनो योगी यदा वर्तते दृष्ट्या निश्चलतारया बहिरधः पश्यन्नपश्यन्नपि । मुद्रेयं खलु शांभवी भवति सा लब्धा प्रसादाद्गुरोः । शून्याशून्यविलक्षणं स्फुरति तत्तत्त्वं परं शांभवम् ।। ३८. श्रीशांभव्याश्च खेचर्या अवस्थाधामभेदतः । भवेच्चित्तलयानंद: शून्ये चित्सुखरूपिणि ।। उन्मनी मुद्रा ३९. तारे ज्योतिषि संयोज्य किंचिदुन्नमयेद्ध्वौ । पूर्वयोगं मनो युंजन्नुन्मनीकारकः क्षणात् ।। ४०. केचिदागमजालेन केचिन्निगमसंकुलैः । केचित्तर्केण मुह्यति नैव जाति तारकम् ।। ४१. अर्धोन्मीलितलोचनः स्थिरमना नासाग्रदत्तेक्षण श्चंद्रार्कावपि लीनतामुपनयन्निष्पंदभावेन यः । ज्योतीरूपमशेषबीजमखिलं देदीप्यमानं परं तत्त्वं तत्पदमेति वस्तु परमं वाच्यं किमत्राधिकम् ॥ ४२. दिवा न पूजयेल्लिंगं रात्रौ चैव न पूजयेत् । सर्वदा पूजयेल्लिंगं दिवारात्रिनिरोधतः ।। खेचरी मुद्रा का स्थैर्य ४३. सव्यदक्षिणनाडिस्थो मध्ये चरति मारुतः । __ तिष्ठते खेचरी मुद्रा तस्मिन्स्थाने न संशयः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003671
Book TitleChitta Samadhi Jain Yog
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1986
Total Pages288
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy