SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ २१६ चित्त-समाधि : जैन योग प्राणलय से कालजय १७. सूर्याचंद्रमसौ धत्तः कालं रात्रिदिवात्मकम् । भोक्त्री सुषुम्ना कालस्य गुह्यमेतदुदाहृतम् ।। १८. द्वासप्ततिसहस्राणि नाडीद्वाराणि पञ्जरे । सुषुम्ना शांभवी शक्तिः शेषास्त्वेव निरर्थकाः ।। १६. वायुः परिचितो यस्मादग्निना सह कुंडलीम् । बोधयित्वा सुषुम्नायां प्रविशेदनिरोधतः ।। २०. सुषम्नावाहिनि प्राणे सिद्धयत्येव मनोन्मनी । अन्यथा त्वितराभ्यासा: प्रयासायैव योगिनाम् ।। २१. पवनो बध्यते येन मनस्तेनैव वध्यते । मनश्च बध्यते येन पवनस्तेन बध्यते । २२. हेतुद्वयं तु चित्तस्य वासना च समीरणः । ___तयोविनष्ट एकस्मिस्तौ द्वावपि विनश्यतः ।। २३. मनो यत्र विलीयेत पवनस्तत्र लीयते । पवनो लीयते यत्र मनस्तत्र विलीयते ।। २४. दुग्धांवत्समिलितावुभौ तौ तुल्यक्रियौ मानसमारुतौ हि । यतोमरुत्तत्र मनः प्रवृत्तिर्यतो मनस्तत्र मरुत्प्रवृत्तिः ।। २५. तत्रैकनाशादपरस्य नाश एकप्रवृत्तेरपरप्रवतिः । अध्वस्तयोश्चेंद्रियवर्गवृत्तिः प्रध्वस्तयोर्मोक्षपदस्यसिद्धिः ।। २६. रसस्य मनसश्चैव चञ्चलत्वं स्वभावतः । रसो बद्धो मनो बद्धं किं न सिद्धयति भूतले ॥ २७. मूच्छितो हरते व्याधीन्मतो जीवयति स्वयम् । बद्धः खेचरतां धत्ते रसो वायुश्च पार्वति ।। २८. मनःस्थैर्ये स्थिरो वायुस्ततो बिंदुः स्थिरो भवेत् । बिंदुस्थैर्यात्सदा सत्त्वं पिंडस्थैर्य प्रजायते ।। २६. इन्द्रियाणां मनो नाथो मनोनाथस्तु मारुतः । मारुतस्य लयो नाथः स लयो नादमाश्रितः ।। ३०. सोऽयमेवास्तु मोक्षाख्यो मास्तु बापु मतांतरे । मनःप्राणलये कश्चिदानन्दः संप्रवर्तते ।। ३१. प्रनष्टश्वासनिश्वासः प्रध्वस्तविषयग्रहः ।। निश्चेष्टो निर्विकारश्च लयो जयति योगिनाम् ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003671
Book TitleChitta Samadhi Jain Yog
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1986
Total Pages288
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy