________________
हठयोगप्रदीपिका
२१५
३. राजयोगः समाधिश्च उन्मनी च मनोन्मनी । __ अमरत्वं लयस्तत्त्वं शून्याशून्यं परं पदम् ।। ४. अमनस्कं तथाद्वैतं निरालंबं निरञ्जनम् ।
जीवन्मुक्तिश्च सहजा तुर्या चेत्येकवाचकाः ।। ५. सालिले सैन्धवं यद्वत्साम्यं भजति योगतः । तथात्ममनसोक्यं
समाधिरभिधीयते ॥ ६. यदा संक्षीयते प्राणो मानसं च प्रलीयते । __तदा समरसत्वं च समाधिरभिधीयते ॥ ७. तत्समं च द्वयोरैक्यं जीवात्मपरमात्मनोः ।
प्रनष्टसर्वसङ्कल्पः समाधिः सोऽभिधीयते ॥ ८. राजयोगस्य माहात्म्यं को वा जानाति तत्त्वतः ।
ज्ञानं मुक्तिः स्थितिः सिद्धिर्गुरुवाक्येन लभ्यते । ६. दुर्लभो विषयत्यागो दुर्लभं तत्त्वदर्शनम् ।
दुर्लभा सहजावस्था सद्गुरोः करुणां विना ॥ १०. विविधरासनैः कुविचित्रः करणैरपि ।
प्रबुद्धायां महाशक्तौ प्राणः शून्ये प्रलीयते ॥ ११. उत्पन्नशक्तिबोधस्य
त्यक्तनिःशेषकर्मणः । योगिन: सहजावस्था स्वयमेव प्रजायते ।। १२. सुषम्नावाहिनि प्राणे शून्ये विशति मानसे ।
- तदा सर्वाणि कर्माणि निर्मलयति योगवित् ।। १३. अमराय नमस्तुभ्यं सोऽपि कालस्त्वया जितः ।
पतितं वदने यस्य जगदेतच्चराचरम् ।। १४. चित्ते समत्वमापन्ने वायौ व्रजति मध्यमे ।
तदामरोली वज्रोली सहजोली प्रजायते । १५. ज्ञानं कुतो मनसि संभवतीह तावत्
प्राणोऽपि जीवति मनो म्रियते न यावत् । प्राणो मनो द्वयमिदं विलयं नयेद्यो
मोक्षं स गच्छति नरो न कथंचिदन्यः ॥ जीवन्मुक्ति का लक्षण १६. ज्ञात्वा सुषुम्नासद्भेदं कृत्वा वायुं च मध्यगम् ।
स्थित्वा सदैव सुस्थाने ब्रह्मरंध्रे निरोधयेत् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org