SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ हठयोगप्रदीपिका कुंडलिनी के पर्याय १०४. कुटिलांगी कुंडलिनी भुजङ्गी शक्तिरीश्वरी । कुंडल्यरु धती चैते शब्दाः पर्यायवाचकाः ।। १०५. उद्घाटयेकपाटं तु यथा कंचिकया हठात् । कुंडलिन्या तथा योगी मोक्षद्वारं विभेदयेत् ।। १०६. येन मार्गेण गंतव्यं ब्रह्मस्थानं निरामयम् । मुखेनाच्छाद्य तवारं प्रसुप्ता परमेश्वरी ॥ १०७. कदोवं कुण्डलो शक्तिः सुप्ता मोक्षाय योगिनाम् । बन्धनाय च मूढानां यस्तां वेत्ति स योगवित् ।। १०८. कुण्डली कुटिलाकारा सर्पवत्परिकीर्तिता । सा शक्तिश्चालिता येन स मुक्तो नात्र संशयः ॥ १०६. गङ्गायमुनयोर्मध्ये बालरंडा तपस्विनीम् । बलात्कारेण गृह्णीयात्तद्विष्णोः परमं पदम् ।। ११०. इडा भगवती गङ्गा पिंगला यमुना नदी । ___ इडापिंगलयोर्मध्ये बालरंडा च कुण्डली । शक्तिचालन मुद्रा १११ पुच्छे प्रगृह्य भुजगी सुप्तामुबोधयेच्च ताम् । निद्रां विहाय सा शक्तिरू+मुत्तिष्ठते हठात् ।। ११२. अवस्थिता चैव फणावती सा, प्रातश्च साय प्रहरार्धमात्रम् । प्रपूर्य सूर्यात्परिधानयुक्त्या प्रगृह्य नित्यं परिचालनीया ॥ ११३. ऊर्ध्वं वितस्तिमात्रं तु विस्तारं चतुरंगुलम् । मृदुलं धवलं प्रोक्तं वेष्टितांबरलक्षणम् ॥ ११४. सति वज्रासने पादो कराभ्या धारयेद्दढम् । गुल्फदेशसमीपे च कंदं तत्र प्रपीडयेत् ।। ११५. वज्रासने स्थितो योगी चालयित्वा च कुंडलीम् । कुर्यादनंतरं भस्त्रां कुण्डलीमाशु बोधयेत् ।। ११६. भानोराकुंचन कुर्यात्कंडलीं चालयेत्ततः । मृत्युवक्रगतस्यापि तस्य मृत्युभयं कुतः ॥ ११७. मुहूर्तद्वयपर्यन्तं निर्भयं चालनादसौ ऊर्ध्वमाकृष्यते किंचित्सुषुम्नायां समुद्गता ॥ ११८. तेन कुंडलिनी तस्याः सुषुम्नायां मुखं ध्रुवम् । जहाति तस्मात्प्राणोऽयं सुषुम्नां व्रजति स्वतः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003671
Book TitleChitta Samadhi Jain Yog
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1986
Total Pages288
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy