________________
२१२
चित्त-समाधि : जैन योग ६०. चित्तायत्तं नृणां शुक्रं शुक्रायत्तं च जीवितम् ।
तस्माच्छुकं मनश्चैव रक्षणीयं प्रयत्नतः ।। ६१. ऋतुमत्या रजोऽप्येवं बीजं बिंदं च रक्षयेत् । मेढ णाकर्षयेदूवं
सम्यगभ्यासयोगवित् ।। ६२. सहजोलिश्चामरोलिर्वज्रोल्या भेद एकतः ।
जले सुभस्म निक्षिप्य दग्धगोमयसंभवम् ॥ ६३. वज्रोलीमैथुनादूर्ध्वं स्त्रीपुंसोः स्वांगलेपनम् ।
अास'नयोः सुखेनैव मुक्तव्यापारयोः क्षणात् ॥ ६४. सहजोलिरियं प्रोक्ता श्रद्धेया योगिभिः सदा ।
अयं शुभकरो योगो भोगयुक्तोऽपि मुक्तिदः ।। ६५. अयं योगः पुण्यवतां धीराणां तत्त्वदर्शिनाम् ।
निर्मत्सराणां सिध्येत न तु मत्सरशालिनाम् । अमरोली मुद्रा ६६. पित्तोल्बणत्वात्प्रथमांबुधारां विहाय निःसारतयांत्यधारा ।
निषेव्यते शोतलमध्यधारा कापालिके खंडमतेऽमरोली। ६७. अमरी यः पिबेन्नित्यं नस्यं कुर्वन्दिनेदिने । वज्रोलीमभ्यसेत्सम्यगमरोलीति
कथ्यते ॥ १८. अभ्यासान्निःसृतां चांद्रों विभूत्या सह मिश्रयेत् ।
धारयेदुत्तमांगेषु दिव्यदृष्टि: प्रजायते ॥ मारी की वज्रोली के साधन ६६. पंसो बिन्दं समाकुंच्य सम्यगभ्यासपाटवात् ।
यदि नारी रजो रक्षेद्वज्रोल्या सापि योगिनी ॥ १००. तस्याः किंचिद्रजो नाशं न गच्छति न संशयः ।
तस्याः शरीरे नादश्च बिंदुतामेव गच्छति ॥ १०१. स बिंदुस्तद्रजश्चैव एकीभूय स्वदेहगौ ।
वज्रोल्यभ्यासयोगेन सर्वसिद्धि प्रयच्छतः। १०२. रक्षेदाकुंचनादूवं या रजः सा हि योगिनी । - अतीतानागतं वेत्ति खेचरी च भवेद् ध्रुवम् ।। १०३. देहसिद्धिं च लभते वज्रोल्यभ्यासयोगतः ।
अयं पुण्यकरो योगी भोगे भुक्तेऽपि मुक्तिदः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org