________________
२१०
चित्त-समाधि : जैन यो
मूलबन्ध ६१. पाणिभागेन संपीड्य योनिमाकुंचयेद्गुदम् । अपानमूर्ध्वमाकृष्य
मूलबन्धोऽभिधीयते ।। ६२. अधोगतिमपानं वा ऊर्ध्वगं कुरुते बलात् ।
आकुंचनेन तं प्राहुर्मूलबन्धं हि योगिनः ।। ६३. गुदं पार्ष्या तु संपीड्य वायुमाकंचयेबलात् ।
वारं वारं यथा चोवं समायाति समीरणः ।। ६४. प्राणापानौ नादबिंदू मूलबंधेन चैकताम् ।
गत्वा योगस्य संसिद्धि यच्छतो नात्र संशयः ।। ६५. अपानप्राणयोरैक्यं
क्षयो मूत्रपुरीषयोः । युवा भवति वृद्धोऽपि सततं मूलबंधनात् ।। ६६. अपाने ऊर्ध्वगे जाते प्रयाते वह्निमंडलम् ।
तदाऽनलशिखा दीर्घा जायते वायुनाऽऽहता। ६७. ततो यातो वह्न यपानौ प्राणमुष्णस्वरूपकम् ।।
तेनात्यंतप्रदीप्तस्तु ज्वलनो देहजस्तथा ॥ ६८. तेन कुंडलिनी सुप्ता संतप्ता संप्रबुध्यते ।
दंडाहता भुजङ्गीव निश्वस्य ऋजुतां व्रजेत् । ६६. बिलं प्रविष्टेव ततो ब्रह्मनाड्यन्तरं व्रजेत् ।
तस्मान्नित्यं मूलबन्धः कर्तव्यो योगिभिः सदा ॥ जालन्धर बन्ध ७०. कंठमाकुच्य हृदये स्थापयेच्चिबुकं दृढम् ।
बंधो जालंधराख्योऽयं जरामृत्युविनाशकः ।। ७१. बध्नाति हि शिराजालमधोगामि नभोजलम् ।
ततो जालन्धरो बंधः कंठदुःखौघनाशनः ।। ७२. जालंधरे कृते बंधे कंठसंकोचलक्षणे ।
न पीयूषं पतत्यग्नौ न च वायुः प्रकुप्यति । ७३. कंठसंकोचनेनैव द्वे नाड्यौ स्तंभयेदृढम् ।
मध्यचक्रमिदं ज्ञेयं षोडशाधारबन्धनम् ॥ ७४. मूलस्थानं समाकुच्य उड्डियानं तु कारयेत् ।
इडां च पिंगलां बद्ध्वा वाहयेत्पश्चिमे पथि ।। ७५. अनेनैव विधानेन प्रयाति पवनालयम् ।
ततो न जायते मृत्युर्जरारोगादिकं तथा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org