________________
२०६
हठयोगप्रदीपिका ४६. जिह्वाप्रवेशसंभूतवह्निनोत्पादितः
खलु । चन्द्रात्स्रवति यः सारः स स्यादमरवारुणी ।। ५०. चुम्बंती यदि लंबिकाग्रमनिशं जिह्वारसस्पंदिनी
सक्षारा कटुकाम्लदुग्धसदृशी मध्वाज्यतुल्या तथा । व्याधीनां हरणं जरांतकरणं शस्त्रागमोदीरणं
तस्य स्यादमरत्वमष्टगुणितं सिद्धांगनाकर्षणम् ॥ ५१. मूर्ध्नः षोडशपत्रपद्मगलितं प्राणादवाप्तं हठा
दूस्यिो रसनां नियम्य विवरे शक्ति परां चिंतयन् । उत्कल्लोलकलाजलं च विमलं धारामयं यः पिबे
न्निाधिः स मृणालकोमलवपुर्योगी चिरं जीवति ।। ५२. यत्प्रालेयं प्रहितसुषिरं मेरुमूर्षांतरस्थं
तस्मिस्तत्त्वं प्रवदति सुधीस्तन्मुखं निम्नगानाम् । चन्द्रात्सारः सवति वपुषस्तेन मृत्युनराणां
तद्बध्नीयात्सुकरणमथो नान्यथा कार्यसिद्धिः ।। ५३. सुषिरं ज्ञानजनक पंचस्रोतःसमन्वितम् ।
तिष्ठते खेचरी मुद्रा तस्मिञ्शून्ये निरंजने ।। ५४. एकं सष्टिमयं बीजमेका मुद्रा च खेचरी ।
____एको देवो निरालंब एकावस्था मनोन्मनी ।। उड्डीयान बन्ध ५५. बद्धो येन सुषुम्नायां प्राणस्तूड्डीयते यतः ।
तस्मादुड्डीयनाख्योऽयं योगिभिः समुदाहृतः ॥ ५६. उड्डीनं कुरुते यस्मादविश्रांतं महाखगः ।
उड्डीयानं तदैव स्यात्तत्र बंधोऽभिधीयते ।। ५७. उदरे पश्चिमं तानं नाभेरूज़ च कारयेत् ।
उड्डीयानो ह्यसौ बंधो मृत्युमातङ्गकेसरी । ५८. उड्डीयानं तु सहजं गुरुणा कथितं सदा ।
अभ्यसेत्सततं यस्तु वृद्धोऽपि तरुणायते । ५६. नाभेरूलमधश्चापि तानं कुर्यात्प्रयत्नतः ।
षण्मासमभ्यसेन्मृत्यु जयत्येव न संशयः ॥ ६०. सर्वेषामेव बन्धानामुत्तमो ह्य ड्डियानकः ।
उड्डियाने दृढे बंधे मुक्तिः स्वाभाविकी भवेत् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org