________________
२०८
चित्त-समाधि : जैन योग
३३. छेदनचालनदोहैः कलां क्रमेण वर्धयेत्तावत ।
सा यावद्भूमध्यं स्पृशति तदा खेचरी सिद्धिः । ३४. स्नुहीपत्र निभं शस्त्रं सुतीक्ष्णं स्निग्धनिर्मलम् ॥
समादाय ततस्तेन रोममात्रं समुच्छिनेत् ॥ ३५. ततः सैंधवपथ्याभ्यां चूर्णिताभ्यां प्रघर्षयेत् ।
पुनः सप्तदिने प्राप्ते रोममात्रं समुच्छिनेत् ॥ ३६. एवं क्रमेण षण्मासं नित्यं युक्तः समाचरेत् । षण्मासाद्रसनामूलशिलाबंधः
प्रणश्यति ।। ३७. कलां पराङ मुखीं कृत्वा त्रिपथे परियोजयेत् ।
सा भवेत्खेचरी मुद्रा व्योमचक्रं तदुच्यते । ३८. रसनामूर्ध्वगां कृत्वा क्षणार्धमपि तिष्ठति ।
विषैविमुच्यते योगो व्याधिमृत्युजरादिभिः ।। ३६. न रोगो मरणं तंद्रा न निद्रा न क्षुधा तृषा ।
न च मूर्छा भवेत्तस्य यो मुद्रां वेत्ति खेचरीम् ।। ४०. पीड्यते न स रोगेण लिप्यते न च कर्मणा ।
बाध्यते न स कालेन यो मुद्रां वेत्ति खेचरीम् । ४१. चित्तं चरति खे यस्माज्जिह्वा चरति खे गता ।
तेनैषा खेचरी नाम मुद्रा सिद्धैर्निरूपिता ॥ ४२. खेचर्यां मुद्रितं येन विवरं लंबिकोव॑तः ।
न तस्य क्षरते बिंदु: कामिन्याः श्लेषितस्य च ।। ४३. चलितोऽपि यदा बिन्दुः संप्राप्तो योनिमंडलम् ।
ब्रजत्यूचं हृतः शक्त्या निबद्धो योनिमुद्रया ॥ ४४. ऊर्ध्वजिह्वः स्थिरो भूत्वा सोमपानं करोति यः ।
मासान न संदेहो मृत्यु जयति योगवित् । ४५. नित्यं सोमकलापूर्ण शरीरं यस्य योगिनः ।
तक्षकेणापि दष्टस्य विषं तस्य न सर्पति ॥ ४६. इन्धनानि यथा वह्निस्तैलवत्ति च दीपकः ।
तथा सोमकलापूर्ण देही देहं न मुंचति ।। ४७. गोमांस भक्षयेन्नित्यं पिबेदमरवारुणीम् ।
कुलीनं तमहं मन्ये चेतरे कुलघातकाः ।। ४८. गाशब्देनोदिता जिह्वा तत्प्रवेशो हि तालुनि ।
गोमांसभक्षणं तत्त महापातकनाशनम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org