SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ २०६ चित्त-समाधि : जैन योग ४. सुषुम्ना शून्यपदवी ब्रह्मरधं महापथः । श्मशान शांभवी मध्यमार्गश्चेत्येकवाचकाः ।। ५. तस्मात्सर्वप्रयत्नेन प्रबोधयितुमीश्रीम् । ब्रह्मद्वारमुखे सुप्तां मुद्राभ्यासं समाचरेत् ।। ६. महामुद्रा महाबंधो महावेधश्च खेचरी । उड्यानं मूलबंधश्च बंधो जालं धराभिधः ॥ ७. करणी विपरीताख्या वाढोलो शक्तिचालनम् । इदं हि मुद्रादशकं जरामरणनाशनम् ॥ ८. आदिनाथोदितं दिव्यमष्टैश्वर्यप्रदायकम् । वल्लभं सर्वसिद्धानां दुर्लभं मरुतामपि ॥ ६. गोपनीयं प्रयत्नेन यथा रत्नकरंडकम् । कस्यचिन्नैव वक्तव्यं कुलस्त्रीसुरतं यथा ॥ महामुद्रा १०. पादमूलेन वामेन योनि संपीड्य दक्षिणम् । प्रसारितं पदं कृत्वा धराभ्यां धारयेद्रढम् ।। ११. कंठे बंधं समारोप्य धारयेद्वायुमूलतः । ___ यथा दंडहतः सो दंडाकारः प्रजायते ।। १२. ऋज्वीभूता तथा शक्तिः कुण्डली सहसा भवेत् । तदा सा मरणावस्था जायते द्विपुटाश्रया ।। १३. ततः शनैः शनैरेव रेचयेन्नैव वेगतः । महामुद्रां च तेनैव वन्दति विबुधोत्तमाः ।। १४. इयं खलु महामुद्रा महासिद्धैः प्रदर्शिता । महाक्लेशादयो दोषाः क्षीयंते मरणादयः । __ महामुद्रां च तेनैव वदंति विबुधोतमाः ॥ १५. चन्द्रांगे तु समभ्यस्य सूर्यांगे पुनरभ्यसेत् । यावत्तुल्ला भवेत्संख्या ततो मुद्रां विसर्जयेत् ।। १६. न हि पथ्यमपथ्यं वा रसाः सर्वेऽपि नीरसाः । अपि भक्तं विषं घोरं पीयूषमपि जीर्यति ॥ १७. क्षयकुष्ठगुदावर्त- गुल्माजीर्ण- पुरोगमाः । तस्य दोषाः क्षयं यांति महा मुद्रां तु योऽभ्यसेत् ॥ १८. कथितेयं महामुद्रा महासिद्धिकरा नृणाम् । गोपानीया प्रयत्नेन न देया यस्य कस्यचित् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003671
Book TitleChitta Samadhi Jain Yog
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1986
Total Pages288
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy