________________
हठयोगप्रदीपिका
२०५
प्लावनी कुंभक ७०. अन्तः प्रवर्तितोदार- मारुतापूरितोदरः ।
पयस्यगाधेऽपि सुखात्प्लवते पद्मपत्तवत् ।। प्राणायाम के भेद ७१. प्राणायामस्त्रिधा प्रोक्तो रेचपूरककुम्भकैः ।
सहितः केवलश्चेति कुम्भको द्विविधो मतः ॥ ७२. यावत्केवलसिद्धिः स्यात्सहितं तावदभ्यसेत् ।
रेचकं पूरकं मुक्त्वा सुखं यद्वायुधारणम् ।। ७३. प्राणायामोऽयमित्युक्तः सः वै केवलकुम्भकः ।
कुम्भके केवले सिद्धे रेचपूरकजिते ।। ७४. न तस्य दुर्ल किंचित्रिषु लोकेषु विद्यते ।
शक्तः केवलकुम्भेन यथेष्टं वायुधारणात् ।। ७५. राजयोगपदं चापि लभते नात्र संशयः ।
कुंभकात्कुंडलीबोधः कुंडलीबोधतो भवेत् ।। ७६. अनर्गला सुषुम्ना च हठसिद्धश्च जायते ।
हठं विना राजयोगं राजयोगं बिना हठः ।।
न सिध्यति ततो युग्ममानिष्पत्तेः समभ्यसेत् ।। ७७. कुंभकप्राणरोधांते कुर्याच्चित्तं निराश्रयम् । एवमभ्यासयोगेन
राजयोगपदं व्रजेत् ।। ७८. वपुः कृशत्वं वदने प्रसन्नता, नादस्फुटत्वं नयने सुनिर्मले । अरोगता बिंदुजयाऽग्निदोपनं, नाडोविशुद्धिर्हठयोगलक्षणम् ।।
। तृतीय उपदेश कुंडली बोध १. सशैलवनधात्रीणां
यथाधारोऽहिनायकः । सर्वेषां योगतंत्राणां तथाधारो हि कुंडलो ॥ २. सुप्ता गुरुप्रसादेन यदा जागति कुण्डली ।
तदा सर्वाणि पद्मानि भियंते ग्रन्थयोऽपि च ॥ सुषुम्ना के पर्याय ३. प्राणस्य शन्यपदवी तथा राजपथायते ।
तदा चित्तं निरालंबं तदा कालस्य वंचनम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org