________________
२०४
चित्त-समाधि : जैन योग ५६. भवेत्सत्त्वं च देहस्य सर्वोपद्रवजितः ।
अनेन विधिना सत्यं योगींद्रो भूमिमण्डले ॥ शीतली कुम्भक ५७. जिह्वया वायुमाकृष्य पूर्ववत्कुंभसाधनम् ।
शनकैर्घाणरंध्राभ्यां रेचयेत्पवनं सुधीः ।। ५८. गुल्मप्लीहादिकानोगावरं पित्तं क्षुधां तषाम् ।
विषाणि शीतली नाम कुंभिकेयं निहंति हि ।। भस्त्रिका कुम्भक ५६. ऊर्वोरुपरि संस्थाप्य शुमे पादतले उभे । पद्मासनं
भवेदेतत्सर्वपापप्रणाशनम् ।। ६०. सम्यक्पद्मासनं बद्ध्वा समग्रीवोदरं सुधीः ।
मुखं संयम्य यत्नेन प्राणं घ्राणेन रेचयेत् ॥ ६१. यथा लगति हत्कंठे कपालावधि सस्वनम् ।
वेगेन पूरयेच्चापि हृत्पद्मावधि मारुतम् ।। ६२. पुनविरेचयेत्तद्रत्पूरयेच्च
पुनः पुनः । यथैव लोहकारेण भस्त्रा वेगेन चाल्यते ॥ ६३. तथैव स्वशरीरस्थं चालयेत्पवनं धिया ।
यदा श्रमो भवेद्देहे तदा सूर्येण पूरयेत् ।। ६४. यथोदरं भवेत्पूर्णमनिलेन तथा लघ ।
धारयेन्नासिकां मध्यातर्जनीभ्यां विना दृढ़म् ॥ ६५. विधिवत्कुम्भकं कृत्वा रेचयेदिडयानिलम् ।। वातपित्तश्लेष्महरं
शरीराग्निविवर्धनम् ।। ६६. कुंडलीबोधक क्षिप्रं पवनं सुखदं हितम् । ब्रह्मनाडीमुखे
संस्थकफाद्यर्गलनाशनम् ।। ६७. सम्यग्गात्रसमुद्भूतं
ग्रन्थित्रयविभेदकम् । विशेषणैव कर्तव्यं भस्त्राख्यं कुम्भकं त्विदम् ॥ भ्रामरी कुंभक ६८. वेगाद्घोषं पूरकं भृङ्गनादं रेचकं मंदमंदम् ।
___ योगींद्राणामेवसभ्यासयोगाच्चित्ते जाता काचिदानंदलीला ॥ मूर्छा कुंभक ६६. पूरकांते गाढतरं वद्ध्वा जालंधरं शनैः ।
रेचयेन्मूर्च्छनाख्येयं मनोमूर्छा सुखप्रदा॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org